SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ ३७४ यथा वा काव्यमाला । 'दोःसंदोहवशंवदत्रिभुवनश्रीगर्वसर्वकषः कैलासोद्धरणः प्रचण्डचरितो देवः कुबेरानुजः । यत्रायं स्वयमस्ति सेयममरावत्यापि वन्द्या पुरी ता' नीला मर्कटकेन कामपि दशां धिग्दैवमावश्यकम् ॥' प्रथमे तु स्वरूपेणैव संबन्धानुपपत्तिः, अत्र तु लङ्काया मर्कटजन्यदुर्दशासंबन्धानुपपत्तिरपि रावणस्य सत्त्वोत्थापिता । तदधिष्ठानेनैव तदनुपपतेर्भानादिति शेषः ॥ 'कथं सर्वगुणैर्हीींना गुणवन्तं महौजसम् । सुमुखं दुर्मुखी रामं कामयामास राक्षसी ॥' एतेन 'असंभवोऽर्थनिष्पत्तेरसंभाव्य [त्व]वर्णनम् । को वेद गोपशिशुकः शैलमुत्पाटयेदिति ॥' इत्यसंभवस्यालंकारान्तरत्वमपास्तम् ॥ एतेनैव – इष्टसिद्ध्यर्थमिष्टैषिणा क्रियमाणमिष्टप्रतिकूलार्थाचरणं विचित्रालंकारः । यथा ---- 'बन्धोन्मुक्त्यै खलु मखमुखान्कुर्वते कर्मपाशा नन्तः शान्त्यै मुनिशतमतानल्पचिन्तां भजन्ति । तीर्थे मज्जन्त्यशुभजलधेः पारमारोढुकामाः सर्व प्रामादिकमिह भवभ्रान्तिभाजां नराणाम् ॥' इत्यपि परास्तम् । उन्मुक्तिपाशयोः कार्यकारणभावानुपपत्तिसत्त्वात् ॥ यत्तु [रसगङ्गाधरे] — 1 'क शुक्तयः क मुक्ता वा क्क पङ्कः क्व च पङ्कजम् । क्क मृगः क च कस्तूरी धिग्विधातुर्विदग्धताम् ॥' इत्यादौ नायमलंकारः । वस्तुवृत्तस्य लोकसिद्धत्वेनालंकारायोगात् । कविप्रतिभामात्रकल्पितानामर्थानामलंकारत्वात् ॥ एवम् —
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy