SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ३६६ काव्यमाला। इति तात्पर्योदाहरणेऽप्युत्तरोत्तरोत्कर्षानुभवाद्विशेषश्चिन्त्यः । अयं चालंकारो वेदेऽपि दृश्यते । तथा च कठवल्लीषु पठ्यते 'इन्द्रियेभ्यः परा ह्या अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिरात्मा बुद्धेर्महान्परः ॥ महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥' __इति सारः। असंगतिं निरूपयति हेतुव्यधिकरणं स्यात्कार्य चेत्सा त्वसंगतिः प्रोक्ता । इह खलु कार्यकारणभावोऽसमानाधिकरणयोरेव धर्मिणोः प्रसिद्धः । कार्यतावच्छेदकसंबन्धेन कार्याधिकरणयोर्वर्तमानस्य कारणतावच्छेदकसंबन्धावच्छिन्नप्रतियोगिताकाभावस्य प्रतियोगितानवच्छेदको यो धर्मस्तद्वत्त्वस्य कारणपदार्थत्वात् । पदार्थान्तरत्वमतेऽपि तत्रैव तत्कल्पनात् । न च कारणं विना कार्यानुपपत्तिः । समानाधिकरणकारणान्तराक्षेपेण विरोधसमाधानात् ॥ यथा'जातस्ते निशि जागरो मम पुनर्नेत्राम्बुजे शोणिमा निःपीतं भवता मधु प्रविततं व्याघूर्णितं मे मनः । भ्राम्यद्भुङ्गघने निकुञ्जभवने लब्धं त्वया श्रीफलं पञ्चेषुः पुनरेष मामपदयं क्रूरैः शरैः कृन्तति ॥' यथा श्रीरुद्रचन्द्रदेवानाम्'दोलाखेलनमातनोति भवती दृष्ट्वा स दोलायते वासस्त्वत्कुचयोनिविन्दति पदं क्षोभं स वा विन्दति । व्रीडावेगपरिश्रमो भवति ते दृष्ट्वा स खेदं गत स्त्वं भूयो विरतासि मैव स पुनः किं वा विधेयं वद ॥' १. 'चेत्कार्य स्यात्' इत्यलंकारमुक्तावल्यां पाठः.
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy