SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ अलंकारकौस्तुभः । 'कियत्पचन्नोदनमानयत्कियत्करस्य पप्रच्छ गतागतेन याम् । अहं किमेष्यामि किमेष्यसीति वा व्यधत्त ननं किल लज्जयाननम् ॥ अत्र स्वाभिमुखं नायिकामुखं च करव्यापारेण 'किं त्वं मत्समीपमायास्यसि, किं वाहं त्वत्समीपमेष्यामि' इति नायकाभिप्रायमाकलय्य नायिकया मुखव्यापारेण 'त्वयैवागन्तव्यम्' इति सूचितम् । एवम्'अहर्निशा वेति रताय पृच्छति क्रमेण शीतोष्णकरार्पणाद्विटे। ह्रिया विदग्धा किल तन्निषेधिनी न्यधत्त संध्यामधुरेऽधरेऽङ्गुलिम् ॥' इत्यादावपि बोध्यम् ॥ इति सूक्ष्मम्। सारं निरूपयति___ सारस्तु पूर्वपूर्वादुत्कर्षिण्युत्तरे प्रोक्ते । यत्रोत्तरोत्तरस्य पूर्वपूर्वप्रतियोग्युत्कर्षवत्त्वं कथ्यते स सारालंकारः । यथा'लोकस्रजि द्यौर्दिवि चादितेया अप्यादितेयेषु महामहेन्द्रः । किं कर्तुमर्थी यदि सोऽपि रागाज्जागर्ति कक्षा किमतः परापि ॥' केचित्तु-अवस्थाभेदेनैकस्यैवोत्तरोत्तरोत्कर्षवर्णनेऽपि सारः । यथा'जम्बीरश्रियमतिलङ्घय लीलयैव व्यानम्रीकृतकमनीयहेमकुम्भौ । नीलाम्भोरुहनयनेऽधुना कुचौ ते स्पर्धेते खलु कनकाचलेन सार्धम् ॥' अत्र पूर्वपूर्वावस्थाविशिष्टाभ्यां कुचाभ्यामुत्तरोत्तरावस्थाविशिष्टयोस्तयोरेवोत्कर्षः । एकाश्रये क्रमेणानेकाधेयस्थितिरूपपर्यायस्तु यद्यप्यत्र प्रतीयते तथाप्युत्कर्षरूपसारस्याप्यनन्यथासिद्धत्वादङ्गीकार इति वदन्ति ॥ तत्र 'प्रथमश्रितकञ्जकोरकाभावथ लक्ष्मीमनुभूय कन्दुकानाम् । अधुना श्रयितुं कुचौ यतेते दयिते ते करिशावकुम्भलीलाम् ॥' १. 'शोभा' ख.
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy