________________
अलंकारकौस्तुभः ।
. ३५३
तावत्स्नानकार्य प्रसिद्धमेव । तस्य च स्वाभाविकत्वेनाप्युपपत्त्या न तत्साधकत्वं संभवतीति धौताञ्जनेति उक्तम् । कालबाहुल्यादञ्जन निर्गमवारणाय धौतेति जलजन्यनाशप्रतियोगित्वार्थम् । तस्यापि नेत्रमात्रक्षालनेनापि संभवादुक्तं लम्बालकाग्रमिति । तत्राप्यसंस्कारादिना केशमोक्षसंभवात्तद्वारणाय अलकेति । वाय्वादिनालम्बवत्त्ववारणाय अमेति । तथा चाधोवच्छिन्नभागस्य जलसंयोगेन श्लिष्टतया अग्रमात्रस्य निर्जलतयालम्बवत्त्वमिति भावः । स्नेहादिजन्यसंयोगेनापि श्लिष्टत्वसंभवादाह - हस्ताकर्षिते इत्यादि । तथा च संहतेषु केशेषु अन्तर्गतस्य भूयसो जलस्य सहसाशोषाभावाद्विन्दूत्पत्तिः । अलकाग्राणां विरलतया तत्संबन्धिजलस्य प्रागेव निपतनाल्लम्बत्वम् इतरबाधसहकारेण स्नानजन्यमेवेत्याशयः । हेत्वन्तरमप्याह — यदेकमित्यादि । तथा च परस्परसहकारेणोक्तचिह्नानां स्नानानुमापकत्वसिद्धिरिति ।
-
द्वितीयव्याप्तिमूलानुमानं यथा
'यत्रैता लहरीचलाचलदृशो व्यापारयन्ति भ्रुवं यत्तत्रैव पतन्ति संततममी मर्मस्पृशो मार्गणाः । तच्चक्रीकृतचापसंचितशरमेङ्खत्कृतः क्रोधतो
धावत्यग्रत एव शासनधरः सत्यं सदासां स्मरः ।
अत्र कविकल्पितैव व्याप्तिः । अनुमानं चेदं केवलव्यतिरेकिखरूपमेवेति विशेषो बोध्यः ।
अत्रेदमवधेयम् । वक्ष्यमाणमिलितरीत्या भेदाग्रहप्रसङ्गे हेत्वन्तरेण बोधे हेखन्तरालंकारः । तथा सामान्यरीत्या विशेषधर्मास्फुरणे विशेषालंकारः ।
यथा
'हिमाद्रिं त्वद्यशोमृष्टं सुराः शीतेन जानते । लक्षितान्युदिते चन्द्रे पद्मानि च मुखानि च ।'
इति दीक्षितमतम् ।
४५