SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ३१२ काव्यमाला । यत्तु — 'प्रथमं चुम्बितचरणा जङ्घानूरुनाभिहृदयानि । आश्लिष्य भावना मे खेलतु विष्णोर्मुखाज्जशोभायाम् ॥' इत्यत्र भावनायाः पूर्वपूर्वविषयत्वत्यागस्य अविवक्षितत्वात् क्रमालंकारोऽप्यतिरिक्त इति । तच्चिन्त्यम् ॥ इति पर्याय: । अनुमानं निरूपयति अनुमानं व्याप्यबलाव्यापकधीर्धर्मिनिष्ठा स्यात् । अव्यभिचरितसामानाधिकरण्यरूपव्याप्तिविशिष्टस्य साधनस्य दर्शनात् । धर्मिणि पक्षे तनिष्ठात्यन्ताभावाप्रतियोगित्वरूपव्यापकत्वविशिष्टस्य साध्यस्य यत् ज्ञानं तदनुमानमित्यर्थः । अत्रानुमितिरेवानुमानपदेनोच्यते । तस्या एव चमत्कारजनकत्वेनालंकारत्वात्तां विना परामर्षमात्रेण प्रकृतानुकूलार्थ - सिद्धिविरहात् । व्याप्तिश्चात्र पारमार्थिकी कविकल्पिता च । सा यथा "जं घोअञ्जणसोणलोअणजुअं लग्गालअग्गं मुहं हत्थालम्बिदकेसपल्लवचए दोल्लन्ति जं बिन्दुणो । जं एक्कं सिचअञ्चलं णिवसिअं तं ण्हाणकेलिट्ठिआ आणीदा इमन्भुदेकजणणी जोईसरेणामुणा ||' इयं भैरवानन्देनाकर्षणविद्यया समानीतां कर्पूरमञ्जरीमालोक्य राज्ञ उक्तिः । अत्र धौताञ्जनत्वशोणनयनत्वादिहेतुना तस्या आकर्षणात्पूर्वजलकेलिस्थितत्वं साध्यम् । तथा च प्रयोगः । इयं नायिका, एतदव्यवहितपूर्वकाले कृतस्नाना, तदसाधारणचिह्नत्वात् इति । तथाहि नेत्रारुण्यं " 'यद्धौताअनशोणलोचनयुगं लग्नालका मुखं हस्तालम्बितकेशपल्लवचये दोलायन्ते यद्विन्दवः । यदेकं सिचयाश्चलं निवसितं तत्स्नान केलिस्थिता आनीतेयमद्भुतैकजननी योगीश्वरेणामुना ॥' [कर्पूर० १२६
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy