SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३४२ अलंकारकौस्तुभः। • 'अज्ज व्वेअ पउत्थो अज व्विअ सुण्णआई जाआई । - रत्थामुहदेउलचत्तराई अम्हं च हिअआइं॥' अत्र प्रस्थानजननक्रिययोः । तृतीयो यथा मम 'सज्जितकज्जलरेखो बिम्बाधर ईक्षितश्च दयितस्य । तामरसच्छदशोणं नयनं चाभून्मनखिन्याः ॥' अत्र दर्शनशोणत्वरूपयोर्गुणक्रिययोः । इह यौगपद्यमानं विवक्षितं न तु सामानाधिकरण्यं वैयधिकरण्यं वा । तच्चोदाहृतेषु स्पष्टम् । इति समुच्चयः। पर्यायं निरूपयति___ एकमनेकमनेकैकस्मिन्क्रमतोऽस्ति स पर्यायः । एकं वस्तु अनेकस्मिन् अनेकं वा क्रमेणैकस्मिन् यदुच्यते स द्विविधः पर्याय इत्यर्थः । तत्रापि प्रयोजकाभिधानानभिधानाभ्यां द्वैविध्यमध्यवसेयम् । आद्यं यथा_ 'तीअ मुहाहिं तुअ मुअं तुज्झ मुहाओ अ मज्झ चलणम्मि । हत्थाहत्थीअ गओ अइदुक्करआरओ तिलओ ॥' अत्रैकस्यैव तिलकस्य प्रतिपक्षनायिकामुखनायकमुखखचरणरूपेष्वनेकाश्रयेषु क्रमेण स्थितिरुक्ता । यथा वा'जो तीऍ अहरराओ रत्तिं उव्वासिओ पिअअमेणं । सो विअ दीसइ गोसे सवत्तिणअणेसु संकन्तो ॥' अत्राधरस्थितस्य लौहित्यस्य सपनीनेत्रसंक्रमोक्त्या आश्रयभेदः । ए. कत्वं वाध्यवसानमात्रेण न तु पारमार्थिकत्वेनवेत्यर्थः । १. 'अद्यैव प्रोषितोऽथैव शून्यकानि जातानि । रथ्यामुखदेवकुलचत्वराण्यस्माकं च हृदयानि ॥' [गाथा० २।९०] २. 'तस्या मुखात्तव मुखं तव मुखाच्च मम चरणे।। हस्ताहस्तिकया गतोऽतिदुष्करकारकस्तिलकः ॥' [गाथा० २१७९] ३. 'यस्तस्या अधररागो रात्रावुद्वासितः प्रियतमेन । स एव दृश्यते प्रातः सपत्नीनयनेषु संक्रान्तः ॥' [गाथा० २१६] ४. 'नेति भावः' ख.
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy