SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ३४८ . काव्यमाला। अयमेव त्रिधा पर्यवस्यतीत्याह सदसत्सदसद्योगे [इति ।] सद्योगे असद्योगे सदसद्योगे चेत्यर्थः । क्रमेणोदाहरणानि'राज्यं निर्जितशत्रु योग्यसचिवे न्यस्तः समस्तो भरः सम्यक्पालनलालिताः प्रशमिताशेषोपसर्गप्रजाः । प्रद्योतस्य सुता वसन्तसमयश्चेत्येव नामा धृति ___ कामः काममुपैत्वयं मम पुनर्मन्ये महानुत्सवः ॥' अत्रोत्सवं प्रति राज्यादीनां सतां योगः । 'चत्तरघरिणी पिअदंसणा अ तरुणी पउत्थपइआ अ । असईसअज्जिआ दुग्गआ अ ण हु खण्डिअं सीलम् ॥' अत्रैषां व्रतभङ्गहेतुत्वादसतां योगः । समुच्चयान्तरमाह गुणक्रियायोगपद्येऽन्यः ॥ १ ॥ गुणौ च क्रिये च गुणक्रियाः, गुणश्च क्रिया च गुणक्रिये, गुणक्रियाश्च गुणक्रिये चेत्येकशेषः । गुणयोः क्रिययोर्गुणक्रिययोश्च यौगपद्येऽन्यः समुच्चय इत्यर्थः । क्रमेणोदाहरणानि 'यौवनविजृम्भणेन स्तनद्वयं महदभूच्चास्याः । मदनोद्रेकाचूनां मनांसि रक्तानि चाभूवन् ।' अत्र महत्त्वरक्तत्वगुणयोर्योगपद्यम् । चकारेण तदभिधानात् । द्वितीयो यथा १. 'चत्वरगृहिणी प्रियदर्शना च तरुणी प्रोषितपतिका च । असतीप्रतिवेशिनी दुर्गता च न खलु खण्डितं शीलम् ॥' [गाथा० १३६]
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy