SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ अलंकारकौस्तुभः । ३४५ नस्य योगार्थत्वे दोषाभावात् । एवं च वासुदेवत्वप्रकारेण व्यङ्ग्यत्वेऽपि प्रकारान्तरेण वाच्यत्वमुपगूह्यत एव । एवम् - 'नमो राहुशिरश्छेदकारिणे दुःखहारिणे ।' इत्यत्र प्रकारान्तरेणाभिधानेऽपि सहसैव भगवत्त्वप्रकारकबोधोदयान्नातिप्रसङ्गः । एवम् — 'राहुस्त्री कुचनैष्फल्यकारिणे हरये नमः ।' इत्यत्र राहुशिरश्छेदकारित्वस्य व्यङ्ग्यत्वेऽपि न पर्यायोक्तम् । हरिशब्दसमभिव्याहारसत्त्वात् । किं च ' लोकं पश्यति यस्याङ्गिः -' इत्यादौ गूढपात्त्वादिकं वाच्यप्रायमेवेति पतञ्जलित्वाद्यसाधारणरूपेण व्यङ्ग्यत्वं त्वयाप्यनुमन्तव्यमेवेति सर्वत्रापि तदीयामेव व्यङ्ग्यतामादाय पर्यायोक्तमित्यपि किं न स्यात् । एवं 'वन्दे देवं -' इत्यादौ भगवद्बाहानां व्यासा - दिविनेयत्वाभिधानेन वेदत्वादिरूपेणैव व्यङ्ग्यत्वमावश्यकमिति दिक् । यत्तु — इति दर्पणादौ आनुकूल्यमलंकारान्तरमुक्तम्, तदत्रैवान्तर्भावादुपे 'आनुकूल्यप्रातिकूल्यमानुकूल्यानुबन्धि चेत् ।' क्ष्यम् । एवम्— 'यः प्रेर्यमाणोऽपि हृदा मघोनस्त्वदर्थनायां हियमापदागः । स्वयंवरस्थानजयस्त्वमस्य बधान कण्ठं वरणस्रजाशु ॥' इत्यादावपि इदमेव ज्ञेयम् ॥ इति पर्यायोक्तम् । उदात्तं निरूपयति वस्तुप्रचय उदात्तं महतामङ्गत्ववचनं वा । संपदादिवस्त्वतिशयवर्णनमुदात्तम् । उत्कृष्टानां वर्णनीयनिष्ठाङ्गित्वप्रतियोगित्वमङ्गत्वं च यत्रोच्यते तदपीत्यर्थः । यथा 'नीवीबन्धोच्छ्रसनशिथिलं यत्र पक्ष्माङ्गनानां वासः कायादनिभृतकरेष्वाक्षिपत्सु प्रियेषु । ૪૪
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy