SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । वोक्तिनियमात् । अन्यथा व्यङ्ग्यत्वानुपपत्तेरिति । एवं 'नमस्तस्मै कृतौ येन -' इत्युक्तं यत्, तदसत् । अत्र हि वाच्येन राहुवधूकुचवैयर्थ्यकारित्वेन राहुशिरश्छेदकारित्वं व्यज्यत इति सर्वसंमतम् । भगवद्वासुदेवत्वं तु विशेषणमर्यादालभ्यत्वेन न व्यङ्ग्यकक्षामारोढुमर्हति । अन्यथा— 'नमो राहुशिरश्छेदकारिणे दुःखहारिणे ।' इत्यत्रापि पर्यायोक्तप्रसङ्गात् । किं च ३४४ 'राहुस्त्रीकुचनैष्फल्यकारिणे हरये नमः ।' इत्यत्र स्वासाधारणधर्मस्याभिधानेन व्यङ्ग्यत्वायोगाद्राहुशिरश्छेदकारित्वेन व्यङ्ग्यत्वमित्यपि परास्तम् । राहुशिरश्छेदकारित्वस्य प्रस्तुताङ्कुरविषयत्वे भगवद्रूपस्य च व्यङ्ग्यत्वानुपपत्तौ पर्यायोक्तस्यैव वैयर्थ्यप्रसङ्गात् । प्रस्तुताङ्कुरस्य प्राचीनैरखीकाराच्च । प्रस्तुतेन खसदृशो वाक्यार्थः प्रस्तुत एव यत्र प्रतीयते तस्यैव तद्विषयत्वाच्च । प्रस्तुतेन कार्येण कारणावगमनस्यापि तद्विषयत्वेऽप्रस्तुतेन कार्येण कारणावगमनेऽप्रस्तुतप्रशंसा । प्रस्तुतेन कार्येण कारणावगमने पर्यायोक्तमिति सर्वस्वकारादिकृतविभागोच्छेदापत्तेश्चेति ॥ . अत्रेदं वक्तव्यम् —यत्तावदुक्तं सर्वस्वकारादिमताकूतम्, तदसत् । व्यङ्गयघटकयत्किंचिदर्थस्य वाच्यकोटिप्रवेशमात्रेण व्यङ्ग्यत्वव्याहतिखीकारे मदमानमोकस्यापि कथं व्यङ्गयत्वम्, तत्प्रविष्टानां त्रयाणामर्थानां मदमानोज्झितशब्दोपात्तत्वेन वाच्यकोटिनिविष्टत्वात् वाच्येऽन्याकारबोधविषयत्वं व्यङ्गये तु तदन्याकारकबोधविषयत्वमिति चेत् । तर्हि ऐरावणशक्रयोरपि कथं व्यङ्ग्यकोटिबहिर्भावोऽभिहितः । मदादेरैरावणादेश्च वाच्यताभेदस्य ब्रह्मणापि दुरुपपादत्वात् । एवं राहोरपि वाच्यतया राहुशिरश्छेदकारीत्यस्यापि व्यङ्ग्यत्वं न स्यात् ॥ यदपि द्वितीयपक्षे प्रकारान्तराभिधानमित्यर्थत्यागबीजमुक्तम्, तदप्यसत् । विवक्षितार्थावच्छेदकधर्मप्रकारकबोधजनकपदासमभिव्याहृते त्वसति तदतिरिक्तधर्म पुरस्कारेणाभिधा
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy