SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ अलंकारकौस्तुभः। ३३३ यमिति, तन्न । उक्तोदाहरणेषु किंचियतिरेकप्रयुक्ताप्राशस्त्यादिज्ञानादेव चमत्कारोदयात् ॥ इति विनोक्तिः। परिवृत्तिं निरूपयति सदृशासदृशैरईरर्थानां विनिमयस्तु परिवृत्तिः । समेन समस्य, न्यूनेनोत्तमस्य, न्यूनेन न्यूनस्य च विनिमय इति त्रेधा परिवृत्तिः । आद्या यथा'आदाय चरणकिसलयमस्मादियमत्र चरणमर्पयति । उभयोः सदृशविनिमयादात्मानमवञ्चितं मन्ये ॥' अत्र मालविकाया अशोकवृक्षात्कर्णावतंसार्थ किसलयं गृहीत्वा तत्र दोहदार्थ चरणप्रहारः कृतः इत्यग्निमित्रोक्तौ उत्तमेनोत्तमस्य विनिमयः । न्यूनेन न्यूनस्य यथा 'अस्थिमालामयीं दत्त्वा मुण्डमालामयीं तनुम् । गृह्णतां त्वत्पुरस्थानां को लाभः स्मरशासन ॥' इति रसगङ्गाधरकृतः। द्वितीया यथा'आदत्त दीप्तं मणिमम्बरस्य दत्त्वा यदस्मै खलु सायधूर्तः । रंज्यत्तुषारद्युति कूटहेम तत्पाण्डुलाभं रजतं क्षणेन ॥' अत्र सायंकालेन चन्द्ररूपं कृत्रिमसुवर्ण दत्त्वा सूर्यरूपो मणिविशेषो गृहीत इति न्यूनेनोत्तमस्य । तृतीयां यथा'अस्ताचलेऽस्मिन्निकषोपलाभे संध्याकषोल्लेखपरीक्षितो यः । विक्रीय तं हेलिहिरण्यपिण्डं तारावराटानियमादित द्यौः ॥' १. 'उत्तमेन' इत्यलंकारमुक्तावलीसदृश एवात्रापि पाठो योग्यः, 'उत्तमेन न्यूनस्य' इति तृतीयोदाहरणोपसंहारग्रन्थातू. २. 'रज्यन्तियारद्युति' ख.
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy