SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ३३२ काव्यमाला | यत्र केनचिद्विना कस्यचिदप्राशस्त्यं प्राशस्त्यं वोच्यते सा विनो क्तिरित्यर्थः । आद्या यथा ‘तव रूपमिदं तया विना विफलं पुष्पमिवावकेशिनः । इयमृद्धधना यथा वनी स्ववनीसंप्रवदत्पिकापि का ॥ अत्र भैमीव्यतिरेकेण नलीयरूपादीनामप्राशस्त्यम् । यथा वा 'अनेन रहिता नैषा नानया रहितोऽप्यसौ । का जिनी विना हंसं कश्च हंसोऽब्जिनीं विना ॥' अत्र मन्दारवतीसुन्दरसेनयोरन्योन्यव्यतिरेकप्रयुक्तमन्योन्यनिष्ठमप्राश स्त्यम् । द्वितीया यथा मम - 'निशयेव विना सरोजिनी सरसी प्रावृषमन्तरा यथा । विषदत्वमुपैति भारती जडभावेन विना विपश्चिताम् ॥' अत्र जाड्यादिव्यतिरेकप्रयुक्तभारत्यादिनिष्ठप्राशस्त्याभिधानम् । विनापदं चार्थपरम् । तेनान्तरेत्यादीनामुपसंग्रहः । केचित्तु—नित्यसंबन्धानामसंबन्धवचनं विनोक्तिः । यथा 'मृणालमन्दानिलचन्दनानामुशीरशैवालकुशेशयानाम् । वियोगदूरीकृतचेतनाया विनैव शैत्यं भवति प्रतीतिः ॥ अत्र चन्दनादीनां शैत्यस्य विनाभावेऽपि विनाभावो निबद्ध इत्याहुः, तच्चिन्त्यम् । अत्र शैत्यसाक्षात्काराभावस्यैवोक्त्या शैत्यविनाभावस्यानुक्तेः । न च चन्दनादिस्पार्शनस्य शैत्यविषयकत्वनियमादत्र च चन्दनादिस्पार्शने शैत्यविषयक नियमस्यासिद्धेरिति तस्मादविनाभावोऽत्र प्रायिकसाहचर्यमेव ग्राह्यमित्येव संगतिः । यत्तु — अलंकारान्तरलिङ्गेनैवात्र चमत्कारो न स्वतः, अतो नातिरिक्ते
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy