SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ ३२२ काव्यमाला। .. हंहो मानस बालिश प्रतिपथं प्रत्याशमुद्रीविकां ___ कुर्वन्तं नयनातिथिं पुनरहो कर्तुं किमाकाङ्क्षसि ॥ अत्र द्वितीयपादे वायुत्ववह्नित्वजात्योर्विरोधः । यथा वा'रभसादपि(मि)सर्तुमुद्यतानां दयितानां सखि वारिदो विवस्वान् । रजनी दिवसोऽन्धकारमर्चिविपिनं वेश्म विमार्ग एव मार्गः ॥ अत्र घनत्वादिजातीनां सूर्यत्वादिजात्या विरोधः । द्वादशसूर्यव्यक्तिवृत्तितया तस्य जातित्वात् । जातिपदं च सामान्यमात्रपरम् । तेनान्धकारत्वादीनामजातित्वेऽप्यदोषः । जातीनामेकार्थासमवायित्वमेव विरोधबीज रागोत्कर्षेण तेषां प्रतिबन्धकत्वाभावादविरोधः । जातेर्गुणेन यथा'परं जोण्हा उण्हा गरलसरिसो चन्दणरसो खदक्खारो हारो रअणिपवणा देहतवणा । मुणाली बाणाली जलदि अ जलद्दा तणुलदा __ वरिट्ठा जं दिट्ठा कमलवअणा दीहणअणा(सा सुणअणा)॥' अत्र ज्योत्स्नात्वजातेरौष्ण्येन स्पर्शविशेष रूपगुणेन सह तनिष्ठकार्यतानिरूपितसमवायिकारणतानवच्छेदकत्वरूपो विरोधः। विरोध(रह)वर्णनात्परिहारः। जातेः क्रियया यथा'किसलअकरचरणा वि हु कुवलअणअणा मिअङ्कवअणा वि । अहह णवचम्पअङ्गी तह वि तावेइ अच्चरिअम् ॥' १. 'परं ज्योत्स्ना उष्णा गरलसदृशश्चन्दनरसः ___ क्षतक्षारो हारो रजनिपवना देहतपनाः । मृणाली बाणाली ज्वलति च जलार्दा तनुलता वरिष्ठा यदृष्टा कमलवदना सा सुनयना ॥' [कर्पूरमञ्जरी ॥११] २. 'किसलयकरचरणापि खलु कुवलयनयना मृगावदनापि । अहह नवचम्पकाङ्गी तथापि तापयत्याश्चर्यम् ॥' [कर्पूरमञ्जरी २।४२]
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy