________________
अलंकारकौस्तुभः ।
३२१ त्यागेऽर्थान्तरन्यासत्वं न स्यात् । ‘एको हि दोषो गुणसंनिपाते निमज्जति' इति सामान्यस्य त्वन्मतेऽप्रसिद्धत्वेन विशेषोपन्यासं विना सम्यग्बुद्धौ प्रतिष्ठितत्वासंभवेन समर्थकत्वानुपपत्तेः । एवम्
'हनूमानब्धिमतरदुष्करं किं महात्मनाम् ।' इत्यत्र । 'अगस्त्यो हि पपौ सिन्धुम्' इति कृते । 'दुःकरं किं महात्मनाम्' इति सामान्यस्याप्रसिद्धेस्त्वया खीकार्यतया तत्परित्यक्तसामान्यमात्रोपन्यासेनापि हनूमानित्यस्य समर्थनं न स्यादिति महत्यनुपपत्तिः । तस्माद्विशेषं विना सामान्यस्य ग्रहीतुमशक्यतया सर्वत्र समर्थनीयविशेषातिरिक्तविशेषस्थले गृहीतसामान्येनैव समर्थनं सामान्यग्राहकीभूतो विशेषसहचारश्च क्वचिदर्थगम्यः कचिच्च स्पष्टार्थ कविनैवोपात्त इत्येतावानेव विशेषो न तु क्वचित्समर्थनानपेक्षत्वं क्वचिच्च तदपेक्षत्वमिति दिक् ॥
इत्यर्थान्तरन्यासः । विरोधं निरूपयति
अविरोधेऽपि विरोधो यत्रोक्तः स्याद्विरोधः सः। स्याज्जातेर्गुणकर्मद्रव्याणां स्वस्वपरयोगात् ॥१॥ परमार्थतो विरोधाभावेऽपि यत्रापाततो विरोधो भासते स विरोधालंकार इत्यर्थः । अयमेव विरोधाभास इति गीयते । 'वह्निना सिञ्चति' इत्यादिवारणाय आपातत इत्यन्तम् । तल्लाभाय भावेऽपीत्यन्तम् । तद्भेदानाहजातेरित्यादि । जातिगुणक्रियाद्रव्याणां स्वेन खोत्तरेण च सहेत्यर्थः । एवं [च] जातेर्जातिगुणक्रियाद्रव्यैः, गुणस्य गुणक्रियाद्रव्यैः, क्रियायाः क्रियाद्रव्याभ्याम्, द्रव्यस्य द्रव्येणैवेति दश भेदाः पर्यवसन्नाः । गुणेन सह जातिविरोधस्तु पृथक् नोक्तः । जातेर्गुणविरोध एव तदन्तर्भावात् । एवमुत्तरत्रापि बोध्यम् ।
तत्र जातेर्जात्या यथा श्रीरुद्रचन्द्रदेवतानाम्___'यस्याकर्णनमात्रतोऽपि भवतोऽवस्थेयमीहग्विधा
येनाङ्गे मलयानिलोऽपि भवति प्रायः करीषानलः ।