SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ | भगवतीविचाराः विचार- कहकहकहस्स हसणं, कंदप्पो अनिहुआ य उल्लावा । कंदप्पकहाकहणं, कंदप्पुवएससंसा य ॥ १॥ भूनयणवयणदसणच्छदेहिं रत्नाकर करपायकन्नमाईहिं । तं तं करेइ जह जह, हसइ परो अत्तणा अहसं ॥ २ ॥ वायाकुक्कुइओ पुण, तं जंपइ जेण हस्सए अन्नो । नाणाविहजीवरुए, कुव्वइ मुहतूरए चेव ॥३॥” इत्यादि " जो संजओवि एयासु, अप्पसस्थासु भावणं कुणइ । तो तब्विहेसु गच्छइ, सुरेसु भइओ चरणहीणो॥४॥" त्ति, अतस्तेषां कन्दर्पिकाणां'चरगपरिव्वायगाणं' ति चरकपरिव्राजका-धाटीभिक्षोपजीविनस्त्रिदण्डिनः अथवा चरका:-कच्छोटकादयः, परिव्राजकास्तु-कपिलमुनिसूनवः अतस्तेषां 'किदिवसियाणं' ति किल्विषं-पापं तदस्ति येषां ते ||६ || किल्विषिकाः, ते च व्यवहारतश्चरणवन्तोऽपि ज्ञानाद्यवर्णवादिनः, यथोक्तम्-" णाणस्य केवलीणं, धम्मायरियस्स सव्वसाहूणं । माई अवनवाई, किदिवसियं भावणं कुणइ ॥१॥" अतस्तेषां ' तेरिच्छिआणं' ति तिस्चामश्वगवादीनां देशविरतिभाजां, 'आजीवियाणं' ति पाखण्डिविशेषाणां नाग्न्यधारिणां, गोशालकशिष्याणामित्यन्ये, आजीवन्ति वा ये अस्तित्वेन अविवेकिलोकतो लब्धिपूजाख्यात्यादिभिस्तपश्चरणादीनि ते आजीविका: अतस्तेषां 'आभिओगाणं' ति अभियोजनं-विद्यामन्त्रादिभिः परेषां वशीकरणादि अभियोगः, सच द्विधा, यदाह-" दुविहो खलु अभिओगो, दव्वे भावे य होइ नायव्वो । दव्वंमि होइ जोगा, विज्जा मंता य भावंमि ॥२॥" ति । सोऽस्ति येषां, तेन वा चरन्ति ये ते अभियोगिकाः आभियोगिका वा ते च व्यवहारतश्चरणवन्त एव मन्त्रादिप्रयोक्तारः । यदाह-" कोउयभूईकम्मे, पसिणापसिणे निमित्तमाजीवी । इड्डिरससायगुरुओ, आभिओगं भावणं कुणइ ॥१॥" ति । कौतुकं-सौभाग्याद्यर्थं स्नपनकं, भूतिकर्मज्वरितादिभूतिदानम्, प्रश्नाप्रश्न-स्वनविद्यादि, 'सलिंगीणं' ति रजोहरणादिसाधुलिङ्गवतां, किंविधानाम् ? इत्याह-'दंसणवावन्नगाणं' ति दर्शन-सम्यक्त्वं व्यापन-भ्रष्टं येषां ते तथा तेषां निह्ववानामित्यर्थः । एएसि णं देवलोएसु उववज्जमाणाणं' ति अनेन देवत्वादन्यत्रापि केचिदुत्पद्यन्ते इति प्रतिपादितम्। 'विराहियसंजमाणं जहन्नेणं भवणवासीसु उक्कोसेणं सोहम्मे कप्पे' त्ति इह कश्चिदाह विराधितसंयमानामुत्कर्षण सौधर्मे कल्पे इति यदुक्तं तत्कथं घटते द्रौपद्याः सुकुमालिकाभवे विराधितसंयमाया अपि ईशाने उत्पादश्रवणात् ? इत्यत्रोच्यते तस्याः संयमविराधनोत्तरगुणविषया बकुशत्वमात्रकारिणी न मूलगुणविराधनेति । सौधर्मोत्पादश्च विशिष्टतरसंयमविराधनायां स्यात् । यदि hool पुनर्विराधनामात्रमपि सौधर्मोत्पत्तिकारकं स्यात्तदा बकुशादीनामुत्तरगुणप्रतिसेवावतां कथमच्युतादिषूत्पत्तिःस्यात्, कथञ्चिद्विराधकत्वात्ते ||६ ||
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy