SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ विचार- रत्नाकरः | ||६|| जहन्नेणं सोहम्मे कप्पे उक्कोसेणं अच्चुए कप्पे ४, विराहियसंजमासंजमाणं भवणवासीसु उक्कोसेणं जोइसिएसु ५, असन्नीणं जहन्नेणं भवणवासीसु उक्कोसेणं वाणमंतरेसु ६, आवसेसा सव्वे जहन्नेणं भवणवासीसु उक्कोसगं वोच्छामि-तावसाणं जोइसिएसु ७, कंदप्पियाणं सोहम्मे कप्पे ८, चरगपरिव्वायगाणं बंभलोए कप्पे ९, किदिवसियाणं लंतगे कप्पे १०, तिरिच्छियाणं सहस्सारे कप्पे ११, आजीवियाणं अच्चुए कप्पे १२, आभिओगाणं अच्चुए कप्पे १३, संलिगीणं दंसणवावन्नगाणं उवरिमगेवेज्जएसु १४ ।" वृत्तिर्यथाकर्मलेशादन्तक्रियाया अभावे केचिज्जीवा देवेषूत्पद्यन्ते अतस्तद्विशेषाभिधानायाह-' अह णं भंते !' इत्यादि व्यक्तं, नवरं अथेति परिप्रश्नार्थः । 'असंजयभवियदव्वदेवाणं' ति इह प्रज्ञापनाटीका लिख्यते असंख्याताः-चरणपरिणामशून्या भव्या-देवत्वयोग्या अत एव द्रव्यदेवाः, समासश्चैवम्-असंयाताश्च ते भव्यद्रव्यदेवाश्चेति असंयतभव्यद्रव्यदेवाः । तत्रैते असंयतसम्यग्दृष्टयः किलेत्येके, यतः किलोक्तम्"अणुवयमहव्वएहि य, बालतवोकामनिज्जराए य । देवाउयं निबंधइ, सम्मद्दिट्ठी य जो जीवो ॥१॥” एतच्चायुक्तम् । यतोऽमीषामुत्कुष्टत उपरिमप्रैवयकेषूपपात उक्तः । समयक्दृष्टीनां तु देशविरतानामपि न तत्रासौ विद्यते देशविरतश्रावकाणामच्युतादूर्द्धवमगमनात् । नाप्येते निह्नवाः, तेषामिहैव भेदेनाभिधानात्, तस्मान्मिथ्यादृष्टय एवाभव्या भव्या वा असंयतभव्यद्रव्यदेवाः श्रमणगुणधारिणो निखिलसामाचार्यनुष्ठानयुक्ता द्रव्यलिङ्गधारिणो गुह्यन्ते । ते ह्यखिलकेवलक्रियाप्रभावत एवोपरिमौवेयकेषूत्पद्यन्ते, इति । असंयताच ते सत्यप्यनुष्टाने चारित्रपरिणामशून्यत्वात् । ननु ते कथमभव्या भव्या वा श्रमणगुणधारिणो भवन्ति ? इत्येत्रोच्यते, तेषां हि महामिथ्यादर्शनमोहप्रादुर्भावे सत्यपि चक्रवर्तिप्रभृत्यनेकभूपतिप्रवरपूजासत्कारसन्मानदानान्साधून समवलोक्य तदर्थं प्रव्रज्याक्रियाकलापानुष्ठानं प्रति श्रद्धा जायते, ततश्च यथोक्तक्रियाकारिण इति । अविराहियसंजमाणं' ति प्रव्रज्याकालादारभ्याभग्नचारित्रपरिणामानां संज्वलनकषायसामर्थ्यात्प्रमत्तगुणस्थानकसामर्थ्याद्वा स्वल्पमायादिदोषसंभवेऽप्यनाचरितचरणोपघातानामित्यर्थः । विराहियसंजमाणं' ति उक्तविपरीतानां, अविराहियसंजमासंजमाणं ति प्रतिपत्तिकालादारभ्याखण्डितदेशविरतिपरिणामानां श्रावकाणां 'विराहियसंजसमासंजमाणं' ति उक्तव्यतिरेकिणां ' असन्नीणं' ति मनोलब्धिरहितानामकामनिर्जरावतां, तथा — तावसाणं' ति पतितपत्राद्युपभोगवतां बालतपस्विना, तथा ' कंदप्पियाणं' ति कन्दर्पःपरिहासः सं येषामस्ति तेन वा ये चरन्ति ते कन्दर्पिकाः कान्दर्पिका वा व्यवहारतश्चरणवन्त एव कंदर्पकौकुच्यादिकारकाः । तथा हि-" 118911
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy