SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ विचार- रत्नाकरः 1198911 8888888888888 भावना-यथा निविडनिविडतरमेघपटलैराच्छादितयोरपि सूर्यचन्द्रमसो कान्तेन तत्प्रभानाशः सम्पद्यते, सर्वस्य सर्वथा स्वभावापनयनस्य कर्तुमशक्यत्वात्, एवमनन्तानन्तैरपि ज्ञानावरणपरमाणुभिरेकैकस्यात्मप्रदेशस्यावेष्टितस्यापि नैकान्तेन चैतन्यमात्रस्याप्यभावो भवति । यतो यत्सर्वजघन्यं तन्मतिश्रुतात्मकं, अतः सिद्धोऽक्षरस्यानन्तमो भागो नित्योद्घाटितः, तथा च सति मतिज्ञानस्य श्रुतज्ञानस्य चानादिभाव: प्रतिपद्यमानो न विरुध्यते, इति स्थितम् । इति नन्दीसूत्रवृत्तौ १९२ प्रतौ १६१ पत्रे ॥ ३ ॥ ननु महावीरस्येयन्तः श्रावका अभूवंस्तेषु मध्ये केन जिनप्रतिमा कारिता कस्य वा जिनप्रतिमाऽभूत् इत्यादिभिः, तथा इयत्सु श्रावकेषु केनोपधानानि व्यूढानि कुत्र वा शास्त्रे उपधानान्युक्तानि इत्यादिभिश्च, स्वकपोलकल्पितदुर्विकल्पैरनल्पयन्ति संसारं जल्पाकाः, ततस्तन्मतद्वयनिराकरणाय जिनप्रतिमाक्षराणि उपधानाक्षराणि चेकैनैव सूत्रेण लिख्यन्ते से किं तं उवासगदसाओ ? उवासगदसासु णं समणोवासगाणं नगराई उज्जाणई चेइआई वणसंडाइं समोसरणाई रायाणो अम्मापियरो धम्मायरिया धम्मकहाओ इहलोइअपरलोइया इड्डिविसेसा भोगपरिच्चाया पव्वज्जाओ परियागा सुअपरिग्गहा तवोवहाणाई सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासपडिवज्जणया पडिमाओ उवसग्गा संलेहणाओ भत्तपच्चक्खाणाई पाओवगमणाई देवलोगगमणाई सुकुलपच्चायाईओ पुण बोहिलाभा अंतकिरिआओ अ आघविज्जंति । उवासगदसाणं परित्ता वायणा संखिज्जा अणुओगदारा संखिज्जा वेढा संखिज्जा सिलोगा संखिज्जाओ निज्जुत्तीओ संखिज्जाओ संगहणीओ संखिज्जाओ पडिवत्तीओ, से णं अंगट्ठयाए सत्तमे अंगे एगो सुअक्खंधो दस अज्झयणा दस उद्देसणकाला दस समुद्देसणकाला संखिज्जा पयसहस्सा पयग्गेणं संखिज्जा अक्खरा अणंतागमा अणंता पज्जवा परित्ता तसा अणंता थावरा सासयकडनिबद्धनिकाइया जिणपन्नत्ता भावा आघविजंति पन्नविज्जंति परुविजंति देसिज्जति निदंसिज्जंति उवदंसिज्जंति से एवं आया एवं नाया एवं विनाया एवं चरणकरणपरूवणा आघविज्जइ से तं उवासगदसाओ॥ इति ।। वृत्तिर्यथा-' से किं तं ' इत्यादि, अथ कास्ता उपासकदशा उपासका:-श्रावकास्तद्गताणुव्रतादि क्रियाकलापप्रतिबद्धदशाः दश अध्ययनानि उपासकदशाः, तथा चाह सूरि:-' उवासगदसासु णं' इत्यादि पाठसिद्धं यावन्निगमनम्, नवरं सङ्ख्येयानि पदसहस्राणि पदाणेति एकादशलक्षाः द्विपञ्चाशच्च सहस्राणि इत्यर्थः, द्वितीयं तु व्याख्यानं प्रागिव भावनीयम् । इति नन्दीसूत्रवृत्तौ १९२ प्रतौ १८२ ||१६||
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy