SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ विचार- 88| द्वितीयामेव पृथिवीं यावद्गच्छन्ति न परतः, परपृथ्वीगमनहेतुतथारूपमनोवीर्यपरिणत्यभावात्, तृतीयां यावात् पक्षिणः, चतुर्थी चतुष्पदः, नन्दीसुत्ररत्नाकरः। पञ्चमीमुरगाः, अथ च सर्वेऽप्यूर्ध्वमुत्कर्षतः सहस्रारं यावद्गच्छन्ति, तन्नाधोगतिविषयमनोवीर्यपरिणतेर्वैषम्यदर्शनादूर्ध्वगतावपि तद्वैषम्यम्, विचाराः तथा च सति सिद्धं स्त्रीपुंसामधोगतिवैषम्येऽपि निर्वाणं सममिति कृतं प्रसङ्गेन । तथा पुल्लिङ्गे शरीरनिवृत्तिरूपे व्यवस्थिताः सन्तो ये a सिद्धास्ते पुल्लिङ्गसिद्धाः ९, एवं नपुंसकलिङ्गसिद्धाः १०, तथा स्वलिङ्गे रजोहरणादिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते स्वलिङसिद्धाः | ११, तथा अन्यलिङ्गे परिव्राजकादिसम्बन्धिनि वल्कलकषायादिवस्त्रादिरूपे द्रव्यलिङ्गे व्यवस्थिताः सन्तो से सिद्धास्तेऽन्यलिङ्गसिद्धाः १२, 1198011 गृहिलिङ्गे सिद्धा गृहिलिङ्गसिद्धा मरुदेवीप्रभृतयः १३, तथा एकस्मिन्नेकस्मिन् समये एकैकः सन्तो ये सिद्धास्ते एकसिद्घा:१४, अनेकसिद्धा इति एकस्मिन् समये अनेके सिद्धाः अनेकसिद्धा:१५, अनेके चैकस्मिन् समये सिध्यन्त उत्कर्षतोऽष्टोत्तरशतसङ्ख्या वेदितव्याः । आह-ननु तीर्थसिद्धातीर्थसिद्धरूपभेदद्वये एव शेषा भेदा अन्तर्भवन्ति तत्किमर्थं शेषभेदोपादानं ? उच्यते-सत्यमन्तर्भवन्ति परं न तीर्थसिद्धातीर्थसिद्ध भेदद्वयोपादानमात्राच्छेषभेदपरिज्ञानं भवति, विशेषपरिज्ञानार्थं च विशेषशास्त्रप्रयासः । इति नन्दीसूत्रवृत्तौ .१९२ प्रतौ १०४ । १०५ पत्रे lad॥२॥ निगोदादिजीवानामपि मतिश्रुतज्ञानानन्तांशोऽप्रावृतस्तिष्ठतीत्यभिप्रायो लिख्यते सव्वजीवाणंपि अणं अक्खरस्स अणंतभागो निच्चुग्धाडिओ चिट्ठइ, जइ पुण सो वि आवरिज्जा तेणं जीवो अजीवत्तं पाविज्जा, सुट्ठ वि मेहसमुदए होइ पभा चंदसूराणं इति । वृत्तिर्यथा-' सव्वजीवाणंपि' इत्यादि, सर्वजीवानामपि णमिति वाक्यालङ्कारे, अक्षरस्यश्रुतज्ञानस्य श्रुतज्ञानं च मतिज्ञानाविनाभावि, ततो मतिज्ञानस्यापि अनन्तमो भागो नित्योद्घाटितः सर्वदैवाप्रावृत्तस्तिष्ठति, सोऽपि चानन्ततमो भागोऽनेकविधः, तत्र सर्वजघन्यश्चैतन्यमानं तत् पुनः सर्वोत्कृष्टश्रुतावरणस्त्यानर्द्धिनिद्रोदयभावेऽपि नावियते तथा जीवस्वाभाव्यात् । तथा चाह-'जइ पुण' इत्यादि, यदि पुनः सोऽपि अनन्तो भाग आवियते तेन तर्हि जीवोऽजीवत्वं प्राप्नुयात् जीवो हि नाम चैतन्यलक्षणः, ततो यदि प्रबलश्रुतावरणस्त्यानर्द्धिनिद्रोदयभावे चैतन्यमात्रमप्यावियते तर्हि जीवस्य स्वस्वभावपरित्यागादजीवतैव सम्पनीपद्यते न चैतद्दृष्टामिष्टं 1980|| lael वा, सर्वस्य सर्वथा स्वभावातिरस्कारात् । अत्रैव दृष्टान्तमाह- सुट्टवि' इत्यादि सुष्ठ्वपि मेघसमुदये भवति प्रभा चन्द्रसूर्ययोः, इयमत्र
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy