SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ रत्नाकरःविन विचार- महामहिमाओ करेमाणा पालेमाणे सुहंसुहेणं विहरन्ति ॥ इति वृत्तिर्यथा-' तत्य णं' इत्यादि, तत्र तेषु सिद्धायतनेषु ' णं' इति पूर्ववत्, बहवो भवनपतिव्यन्तरज्योतिष्कवैमानिका देवाश्चातुर्मासिकेषु पर्युषणायामन्येषु च बहुषु जिनजन्मनिष्क्रमणज्ञानोत्पादपरिनिर्वाणादिषु देवकार्येषु देवसमितिषु, एतदेव पर्यायद्वयेन व्याचष्टे-देवसमवायेषु-देवसमुदायेषु आजताः प्रमुदितप्रक्रीडिता अष्टाहिकारूपा महामहिमाः कुर्वन्तः सुखंसुखेन विहरन्ति-आसते । इति श्रीजीवाभिगमतृतीयप्रतिपत्तिज्योतिष्कोद्देशके २६४ प्रतौ २०७ पत्रे ॥ ७ ॥ अत्र मनुष्यलोके मनुष्याणां यथा गृहाबहिर्गमनाय समीचीनः सालङ्कारो वेषो भवति गृहे तु सामान्य एव, तथा देवानामपि यानि केनचित्प्रयोजनेन विकुर्वितानि शरीराणि तानि सालङ्काराणि साभरणानि, यानि तु भवधारणीयानि (तानि) तु विभूषया प्रकृतिस्थानीत्यभिप्रायो लिख्यतेसोहम्मीसाणा देवा केरिसया विभूसाए पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तं जहा- वेउब्वियसरीरा य अवेउव्वियसरीरा य, तत्थ णं जे ते वेउव्वियसरीरा ते हारविराइयवच्छा जाव दसदिसाओ उज्जोवेमाणा पभासेमाणा जाव पडिरूवा, तत्थ णं जे ते अवेउव्वियसरीरा ae ते आभरणवसणरहिया पगतित्था विभूसाए पण्णत्ता ॥ इति । वृत्तिर्यथा-' सोहम्मीसाणा' इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीरकाणि कीदृशानि विभूषया प्रज्ञप्तानि ? भगवानाह-गौतम ! द्विविधानि शरीरकाणि प्रज्ञप्तानि, तद्यथा-भवधारणीयानि उत्तरवैक्रियाणि च, तत्र यानि तानि भवधारणीयानि शरीराणि तानी आभरणवसनरहितानि प्रकृतिस्थानि विभूषया प्रज्ञप्तानि, स्वाभाविक्येव तेषां विभूषा नौपाधिकीति भावः । तत्र यानि तानि उत्तरवैक्रियाणि शरीराणि तानि ' हारविराइयवच्छा' इत्यादि, पूर्वोक्तं तावद्वक्तव्यं यावत् ' दसदिसाओ उज्जोवेमाणा पभासेमाणा पासाईया दरिसणिज्जा अभिरूवा पडिरूवा विभूसाए पण्णत्ता' अस्य व्याख्या प्राग्वत् । इति श्रीजीवाभिगमचतुर्थप्रतिपत्तौ ज्योतिष्कोद्देशके ॥ ७॥ 1॥१२९॥ ॥ इति श्रीमद्कब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरिशिष्योपाध्याय श्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे जीवाभिगमविचारनामा तृतीयस्तरङ्गः ॥३॥
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy