SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ विचार- | जीवाभिगम विचाराः रत्नाकरः 119२८|| द्वीपं नावपीडयति-जलेन न प्लावयत्ति ? नोत्पीडयत्ति-प्राबल्येन न बाधते ?,'णं' इति वाक्यालंकृतौ, एकोदकं-सर्वात्मना उदकप्लावितं न करोति ?, भगवानाह-गौतम ! जंबूद्वीपे-भरतैरावतयो: क्षेत्रयोरर्हन्तश्चक्रवर्त्तिनो बलदेवा वासुदेवा: चारणा-जङ्घाचारणामुनयो विद्याधराः | श्रमणा:-साधवः श्रमण्यः-संयत्यः श्रावका: श्राविकाः एतत्सुषमदुष्षमाधारकत्रयवर्त्तिनमपेक्ष्योक्तं वेदतव्यम्, तत्रैवार्हदादीनां यथायोगं सम्भवात् सुषमसुषमादिकमधिकृत्याह-मनुष्याः प्रकृतिभद्रका: प्रकृतिप्रतनुक्रोधमानमायालोभाः मृदुमार्दवसम्पन्ना: आलीना भद्रका विनीताः, एतेषां व्याख्यानं प्राग्वत्, तेषां प्रणिधया प्रणिधानं प्रणिधा ' उपसर्गादात' इत्यङ्प्रत्ययः तान् प्रणिधाय-अपेक्ष्य तेषां प्रभावत इत्यर्थः । लवणसमुद्रो जंबूद्वीपं द्वीपं नावपीडयतीत्यादि, दुष्षमदुष्षमादावपि नावपीडयति, भरतैरावतवैताढ्याधिपतिदेवता प्रभावात्, तथा क्षुल्लहिमवच्छिखरिणोर्वर्षधरपर्वतयोर्देवता महर्द्धिका, यावत्करणान्महाद्युतिका इत्यादिपरिग्रहः परिवसन्ति तेषां प्रणिधया-प्रभावेन लवणसमुद्रो जंबूद्वीपं द्वीपं नावपीडीयतीत्यादी तथा हैमवतैरण्यवतोवर्षयोर्मनुजाः प्रकृतिभद्रका यावद्विनीतास्तेषां प्रणिधयेत्यादि पूर्ववत्, तथा तयोरेव वर्षयोर्यथाक्रमं शब्दापातिविकटापाती वृत्तवैताढ्यौ पर्वतौ तयोर्देवौ महद्धिको यावत्पल्योपमस्थितिको परिवसतस्तेषां प्रणिधयेत्यादि पूर्ववत्, तथा महाहिमवद्रुक्मिवर्षधरपर्वतयोर्देवता महर्द्धिका इत्यादि तथैव, तथा हरिवर्षरम्यकवर्षयोर्मनुजाः प्रकृतिभद्रका इत्यादि सर्वं हैमवतवत्, तथा तयोः क्षेत्रयोर्यथाक्रमं गधापातिमाल्यवत्पर्यायौ यौ वृत्तवैताढ्यपर्वतौ तयोर्देवौ महर्टिकावित्यादि पूर्ववत्, तथा पूर्वविदेहापरविदेहवर्षयोरर्हन्तश्चक्रवर्त्तिनो यावन्मनुजाः प्रकृतिभद्रका यावद्विनीतास्तेषां प्रणिधयेत्यादि पूर्ववत्, तथा देवकुरूत्तरकुरुषु मनुजाः प्रकृतिभद्रका यावद्विनीतास्तेषां प्रणिधयेत्यादि पूर्ववत्, तथा उत्तरकुरुषु जम्ब्वां सुदर्शनायामनादृतो नामदेवो जंबूद्वीपाधिपतिः परिवसति तस्य प्रणिधयाप्रभावेनेत्यादि । इति श्रीजीवाभिगमतृतीयप्रतिपत्तिमन्दरोद्देशके २६४ प्रतौ १८५ पत्रे ॥ ६ ॥ चातुर्मासिकसव्वत्सरिकपर्वदिनानि देवानामपि सुतरां मान्यानीत्यभिप्रायो लिख्यते सेसं तहेव जाव सिद्धायतणा सव्वा ते चिय वण्णणा णायव्वा । तत्थ णं बहवे भवणवइवाणमंतरजोइसियवेमाणिया देवा चाउम्मासियपडिवएसु संवच्छरेसु य अण्णेसु बहूसु जिणजम्मणनिक्खमणणाणुप्पायपरिणिच्चाणमादिएसु य देवकज्जेसु य देवसमुदएसु य देवसमितीसु य देवसमवाएसु य देवपओयणेसु य एगंतओ सहिया समुवागया समाणा पमुइयपक्कीलिया अट्ठाहियारूवाओ 19२८॥
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy