SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ विचार अनेकसिद्धान्तविचाररत्नारम्ये गुरूपासनमार्गलभ्ये । विचाररत्नाकरनामशास्त्रे, प्राच्यं तटं प्राप्तमिदं समाप्तिम् ॥१॥ रत्नाकरः पदैस्त्रिभिर्येन समस्तमेतत् त्रैलोक्यमाक्रान्तमहो महीयः । सनातनं तं नरकान्तकं च, सिद्धान्तगोविन्दमहं श्रयामि ॥ २ ॥ अथानुक्रमायाता उपाङ्गविचाराः प्रस्तूयन्ते । तत्र प्रथममौपपातिकविचारा यथा केचिच्चाविदितसूत्रतात्पर्याः 'जीवेणं भंते ! असंजय' इत्यादिसूत्रं दर्शयन्तोऽकामनिर्जरालब्धदेवभवा जन्मान्तराराधका न भवन्त्येवेति निश्चयं वदन्ति तच्चासङ्गतं, टीकायां भाज्या, इति व्याख्यातत्वात् । सटीकं सूत्रं चेदम् - 1199910 "जीवे णं भंते ! असंजए अविरए अपडिहयपच्चक्खायपावकम्मे इतो चुए पेच्चा देवे सिया ? गोयमा ! अत्यंगतिया देवे सिया अत्यंगतिया णो देवे सिया । से केणद्वेणं भंते ! एवं वुच्चति-अत्थेगतिया देवे सिया अत्थेगतिया णो देवे सिया ? गोयमा ! जे इमे जीवा गामागरनगरनिगमरायहाणिखेडकब्बडमडंबदोणमुहपट्टणासमसंबाहसन्निवेसेसु अक्रामतन्हाए अकामच्छुहाए अकामबंभचेरवासेणं अकामअन्हाणकसीयातवदंसमसगसेयजल्लमल्लपंकपरितावेणं अप्पतरो वा भुज्जतरो वा कालं अप्पाणं परिकिलेस्संति अप्पतरो भुज्जतरो वा कालं अप्पाणं परिकिलेसित्ता कालमासे कालं किच्चा अन्नतरेसु वाणमंतरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, तहिं तेसिं गती तहिं तेसिं ठिती तहिं तेसिं उववाए पण्णते । तेसि णं भंते ! देवाणं केवतियं कालं ठिती पण्णत्ता ? गोयमा ! दसवाससहस्साई ठिती पण्णत्ता । अस्थि णं भंते ! तेसिं देवाणं इड्डी इ वा जुती इ वा जसे ति वा बले ति वा वीरिए ति वा पुरिसक्कारपरक्कमे ति वा ? हंता अस्थि । तेणं भंते ! देवा परलोगस्साराहगा ? णो इणेढे समढे" इति । वृत्तिर्यथा-'जे इमे जीवा' इति य इमे प्रत्यक्षासन्ना जीवा:पञ्चेन्द्रिय-तिर्यङ्मनुष्यलक्षणाः, ग्रामाकरादयः प्राग्वत्, 'अकामतन्हाए' त्ति अकामानां-निर्जराधनभिलाषिणां सतां तृष्णा-तृट् अकामतृष्णा तया, एवमन्यत्पदद्वयम्, 'अकामअन्हाणगसीयातवदंसमसगसेयजल्लमल्लपंकपरितावेणं' इह स्वेदः-प्रस्वेदो, याति-लगति चेति ' जल्लो' रजोमात्रं, मल:-कठिनीभूतः, पङ्कः-स एव स्वेदेनाद्रीभूतः, अस्नानकादयस्तु प्रतीताः, अस्नानकादिभिर्यः परितापः स तथा तेन 'अप्पतरो वा भुज्जतरो वा कालं' ति प्राकृतत्वेन विभक्तिपरिणामादल्पतरं वा भूयस्तरं वा कालं यावत् 'अन्नतरेसु' ति बहुनां मध्ये ool एकतरेषु वाणमंतरेसु' त्ति व्यन्तरेषु देवलोकेषु-देवजनेषु मध्ये, 'तहिं तेसिं गइ' त्ति तस्मिन् वानमन्तरे देवलोके तेषामसंयतादिविशेषणजीवानां 1199911
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy