________________
श्री
प्रव्रज्या०
श्री प्रद्यु श्री वृत्तौ
|| 99 ||
दर्हद्भिरीरितम् ।। ४३ ।। पुनः पुनर्निषिद्धोऽपि तस्मिन्नेवं प्रलापिनि । कायोत्सर्गं व्यधुः संघसमवायेन साधवः ॥ ४४ ॥ | शासनदेवेनादेशं दत्तेति भाषिते । तैरूचे व्रज वेगेन, पृच्छ तीर्थकरं तथा ॥ ४५ ॥ पुष्पमित्रादिसंघस्य किं गोष्ठामाहिलस्य वा । सत्यं वाक्यं ? तया प्रोऽनुवलं दत्थ याम्यहम् ॥ ४६ ॥ कायोत्सर्गं ददौ संघो, गत्वाऽपृच्छज्जिनं च सा । स प्राह सत्यवाक् संघों, मिथ्यावागितरः पुनः ॥ ४७ ॥ निह्नवः सप्तमो ह्येष सा श्रुत्वेति समागता । संघस्तस्या गिरा सर्वः, कायोत्सर्गमपारयत् ॥ ४८ ॥ कथितेऽथार्हदादेशे, निह्नवः प्राह सप्तमः । एषा गन्तुमशक्ता हि, वराक्यल्पार्द्धका यतः ॥ ४९ ॥ अश्रद्दधानस्तद्वाक्यं, पुष्पमित्रेण भाषितः । यथार्थं प्रतिपद्यस्वान्यथा निर्वासयिष्यसे || ५० ॥ तथाप्यनिच्छन् संघेनोज्झितो द्वादशधाऽपि यः । श्रुतोंपध्योर्भक्तपाने चाञ्जलिप्रग्रहेऽपि च ॥ ५१ ॥ दापनायां निकाये चाभ्युत्थाने वन्दनेऽपि च । वैयावृत्ये च समवसरणे चासने तथा ॥ ५२ ॥ कथानिमन्त्रणे चापि, सोऽयं द्वादशधा मतः । संभोगः पञ्चकल्पोक्तस्तत्र संघेन वर्जितः ॥ ५३ ॥ इत्युक्ता निह्नवाः सप्ताल्पविसंवादकारिणः । अथ बहुविसंवादं वक्ष्ये बोटिकनिह्नवम् ॥ ५४ ॥
षड्भिर्नवोत्तरैर्वर्षशतैवीरे शिवं गते । रथवीरपुरे दृष्टिबटिकानामजायत ॥ १ ॥ रथवीरपुरोपान्त, उद्याने दीपकाभिधे । आर्यकृष्णाभिधाचार्याः, समवासार्षुरेकदा ॥ २ ॥ तत्र प्राक् शिवभूत्याख्यो, भटः प्रकटपौरुषः । सहस्रमल्ल एकोऽपि नृपं सेवितुमागतः ॥ ३ ॥ राजा प्राह परीक्ष्याहं, वृत्तिं दास्यामि ते ततः । भूतेष्टादिवसे प्रोक्तो, व्रज प्रेतवनं प्रति ॥ ४ ॥ तत्र रात्रौ बलि मद्यमुपहारपशुं तथा । मातृणां मन्दिरे गत्वा, देहि व्यादेहि कौतुकम् ॥ ५ ॥ इत्युक्तः स गतस्तत्र, सज्ञा वीराः प्रभाषिताः । अयं शिवारवैर्भाप्यो, भैरवेर्यन्नवैर्नवैः ॥ ६ ॥ स तु प्रदाय मातॄणां बलिं प्रेतवने स्थितः । पशुं खादति तत्रान्ये, भापयन्ति
४ प्रव्रज्या
दुरापतायां सप्तमोनिह्नवः
॥ ७७ ॥