________________
श्री
प्रव्रज्या०
श्री प्रद्युनीयवृत्तौ
11 12 11
तमारवैः ॥ ७ ॥ रोमोद्भेदोऽपि ततस्तस्य नैवास्ति वेगतः । कथितेऽन्यैश्च राजन्यो, वृत्तिं तदुचितां ददौ ॥ ८ ॥ अन्यदा नृपतिर्योधानादिशन्मथुराग्रहे । गत्वा सर्वबलेनैते, तदासन्ना व्यचिन्तयन् ॥ ९ ॥ कतरा मथुरा ग्राह्मा, नेति पृष्टो नृपः पुरा । दुर्विज्ञप्यं स्वभावेन तत् किं कुर्मोऽधुना वयम् ॥ १० ॥ इति चिन्तयतां तेषां शिवभूतिः समागतः। प्राह चिन्तां प्रपन्नाः किं तेऽप्याख्यस्तस्य तत्तथा ॥ ११ ॥ स प्राह तर्हि गृह्णीमः, समकालमुभे अपि । ते प्राहुर्द्वाभ्यां भागाभ्यां नादातुं शक्नुमो वयम् ॥ १२ ॥ एकैकस्याः समादाने, कालश्च प्रचुरो लगेत् । सहस्रमल्लः प्रोवाच दुर्जया मेऽर्च्चतां पुरीम् ॥ १३ ॥ गृहाण पाण्डुमथुरामित्युक्तः स प्रधा वितः । प्रत्यन्तानि गृहीत्वा च मथुरां स्वकरेऽकरोत् ॥१४॥ विज्ञप्तोऽथ नृपस्तुष्टः प्राह किं ते ददाम्यहम् १ । स च प्राह यदग्राहि, तदग्राहि निजेच्छया ।। १५ ।। एवमस्त्विति राज्ञेोक्ते, स स्वैरं नगरे भ्रमन् । एति नो वा निशीथेऽपि तद्भार्या तु पवित्रिता ॥ १६ ॥ न भुङ्क्ते न च शेतेऽसौ शिवभूतावनागते । श्वश्रूष्पृष्टाऽन्यदा प्राह, खेदमेदस्विनि हृदि ॥ १७ ॥ युष्माकं तनयो नित्यमर्द्धरात्रे समेति हि । जागमि क्षुधिता चास्मि, तां विनाऽम्ब ! करोमि किम् || १८ || सोच स्वपिहि वत्से ! त्वमद्य जागर्म्यहं यथा । तयेत्युक्ते वधूः सुप्ता, श्वश्रूः पुनरजागरीत् ॥ १९ ॥ द्वारं बद्ध्वा दृढं यावज्जननी चास्ति जाग्रती । कपाटकटके तावत्, खटत्कारं सुतो व्यधात् ॥ २० ॥ निर्भर्त्स्य स तया भूरि, भणितो व्रज तत्र हि । उद्घाटानि कपाटानि, यत्र स्युरियति क्षणे ॥ २१ ॥ तयेत्युक्तो जगामैष, भवितव्यनियोगतः । आर्यकृष्णाख्य सूरीणामुद्घाटद्वारमाश्रयम् ।। २२ ।। नत्वा चोवाच भगवन् !, प्रव्राजयसि मामिति । तेष्वनिच्छत्सु केशानामुद्धारं विदधे स्वयम् || २३ || पश्चान्मुद्रां समर्थ्यास्य, विहारो विदधे च तैः । कालेन कियता - प्येते, पुनस्तत्पुरमागमन् ॥ २४ ॥ राज्ञा ज्ञात्वा तमाकार्य, ददे तं रत्नकम्बलः । आगतः सूरिभिः प्रोचे, किमरे ग्राह्मयं
३ दिगंबरः
॥ ७८ ॥