SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ निरूपणम् ] सव्याख्यालङ्कारसर्वस्वोपेतम् । अत्र सौमित्रिमैत्री प्रकृता आरोप्यमाणसमानाधिकरणातररूपत्वेन परिणता । आतरस्य भैत्रीरूपतया प्रकृत उपयोगात् । तत्र यथा समासोक्तावारोप्यमाणं प्रकृतोपयोगि तचारोपविषयात्मतयों स्थितम् । अत एव तत्र व्यवहारसमारोपैः, नतु रूपसमारोपः । एवमिहापि ज्ञेयम् । केवलं तत्र विषयस्यैव प्रयोगः । विषयिणो गम्यमानत्वात् । इह तु द्वयोरप्यभिधानं, तादात्म्यात् तु तयोः परिणामित्वम् । द्वितीयो यथा - अत्र सौमित्रिमैत्रीत्यादि । वर्णनीयत्वेन प्रस्तुता सौमित्रिमैत्री । प्रकृते उपयोगादिति । नौसाधने नदीतरणेऽपेक्षितत्वात् । अत्र चोदाहरणे मैत्रीमयमित्यत्र मयटः प्रयोग आरोपस्य दुर्घटत्वादयमिति विच्छिद्यायमसावित्यन्वयमिच्छन्ति को चेत् । एवंविधश्च निदेशः प्रायेणाव्यवहित एव दृश्यत इतीदं सर्वथा न निरवद्यम् । तत् तु यथा-- प्रतिभटविजयाय प्रस्थितस्याग्रयायी प्रलयदहनरूक्षा यादवेन्द्र! प्रतापः । समजाने भुजशौथ वम खड्गः सहायः सनिति विहरतस्ते साक्षिणी वीरलक्ष्मीः ।। अत्र प्रतापभुजशौर्यादयः समानाधिकरणाग्रयायिवादिरूपेण परिणमन्तः शत्रुविजयहेतौ समरकार्य उपयुज्यन्ते । रूपकात् परिणामस्य व्यावृत्तिं दर्शयितुं सम्प्रतिपन्नरूपकव्यावृत्या समासोक्त्या किञ्चित् साम्यमाह -तत्र यथेत्यादिना । तत्र आरोपमार्गे । आरोपमाणम् उपोढरागेणेत्यादौ नायकादि । प्रकृतोपयोगीति । मुखग्रहणादै नायकादेरेवौचित्यात् । आरोपविषयात्मतया निशाशश्याद्यात्मतया । अत एव तादात्म्यादेव । तत्र स. मासोक्तौ । एवमिहापीति । यथा समासोक्तौ विषयविषयितादात्म्येन रूपकाद् भेदः, एवमिह परिणामेऽपि रूपकाद् भेदो ज्ञातव्य १. 'तदत्र', २. 'या तत्र सि', ३. 'पः, ए', ४. 'हव', ५, 'म' क.ख. पाठः.
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy