SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ पथा अलङ्कारसूत्रं (परिणामपूर्वसिद्धत्वाभावाद् न तन्निबन्धनं विषशब्दे श्लिष्टेशब्दपरम्परितमिति श्लेष एवात्रेत्याहुः ।। आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः ॥ १६॥ . आरोप्यमाणं रूपके प्रकृतोपयोगित्वाभावात् प्रकृतोपरञ्जकत्वेनैव केवलेनान्वयं भजते । परिणामे तु प्रकृतात्मतयारोप्यमाणस्योपयोग इति प्रकृतमारोप्यमाणरूपत्वेन परिणमति । आगमानुगमविगमख्यात्यसम्भवात् साङ्ख्यीयपरिणामवैलक्षण्यम् । तस्य च सामानाधिकरण्यवैयधिकरण्याभ्यां दैविध्यम् । आयो यथा"तीर्खा भूतेशमौलिस्रजममरधुनीमात्मनासौ तृतीय स्तस्मै सौमित्रिमैत्रीमयमुपकृतवानातरं नाविकाय । व्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदञ्चदक्षं कृच्छादन्वीयमानस्त्वरितमथ गिरिं चित्रकूटं प्रतस्थे॥" सन्देहलक्षणः सङ्करः स्यात् । पूर्वसिद्धत्वाभावादिाते । श्लेषप्रतीतिमन्तरेण सन्दिग्धत्वात् । तन्निबन्धनमिति । रूपकानेबन्धनम् ॥ प्रकृतोपयोगित्व इति । प्रस्तुतकार्योपयोगित्वे । प्रकृतोपरञ्जकत्वेनेति । प्रकृते मुखादौ स्वगतकान्त्यादिसमर्पणेन । केवलेने त्यनेन तादात्म्यं व्यवच्छिनत्ति । उपयोग इति । प्रस्तुतकार्ये तरणादौ । परिणमतीति । अन्यथा प्रस्तुतकार्यानिष्पत्तेः । घटरूपेण परिणताया मृद उदकाहरणक्षमता । आगमेत्यादि । यथा मृत्परिणामे घटे तस्य मृत्सकाशादागतत्वं घटावस्थायामपि मृद्रूपानुगमः कालान्तरे मृदि विलयश्च प्रतीयते, नैवं मैत्रीपरिणाम आतरे । सामानाधिकरण्येति । विषयविषयिणोरेकविभक्तित्वेन सामानाधिकरण्यं, भिन्नविभक्तिवे वैयधिकरण्यम् । १. 'वं सि' ग. पा :: २. 'टप', ३. 'वेत्या' क, ख. पाठः, ४, करणोप' मूलपाठः
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy