________________
३८२
साहित्यसारम् ।
रसालंकारवस्तूनामुपस्कर्त्रीयमत्र सा । व्यङ्गयानामन्त्ययोर्वाच्ययोरपीत्यस्ति पञ्चधा ॥ ५८ ॥
[ उत्तरार्धे
मालादिभेदान्मालोपमारशनोपमादिभेदादित्यर्थः । आदिना सकलखपरोक्ततद्भेदसंग्रहः । उपमापि । अपिना पूर्णप्तादितद्भेदानन्त्यं कैमुल्य सिद्धमेवेति द्योत्यते । अनन्ता असंख्याता भविष्यतीति योजना । ततः किं तत्राह - संख्यातुमिति । निर्णेतुं परीक्ष्याध्यवसितुं । अविदा असर्वज्ञेन मयेति शेषः । पक्षे उप विष्णुसमीपे मा लक्ष्मीः माला स्वयंवरणवैजयन्ती । आदिपदात्तदुत्तरं तदालिङ्गनादि तद्विशिष्टत्वादिभेदादित्यर्थः । पक्षान्तरे उपमा अद्वैतात्मप्रमा । माला अणिमादिश्रीकारिणी योगचर्या । आदिना त्यागचर्यादिः ॥ ५७ ॥ अथोक्तमेवानन्त्यमुपमायां युक्त्यापि द्रढयन्नस्या ' उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण जातुचित् । हारादिवदलंकारास्तेऽनुप्रासोपमादयः' इति काव्यप्रकाशकारिकायामलंकुर्वन्ति रसमित्यलंकाराणां व्युत्पत्तिपक्षमेवोररीकृत्य रसोपस्कारकत्वरूपस्य स्वरूपलक्षणस्योक्तत्वाच्च मत्कारातिशयजनकत्वलक्षणं रसालंकारवस्त्वाख्यव्यङ्ग्यत्रयस्यालं. कारवस्तुरूपवाच्यद्वयस्याप्युपकारकत्वं प्रथममुपमायां प्रतिबोधयंश्च तस्याः पञ्चविधत्वं प्रतिजानीते - रसेति । व्यङ्गयानां रसस्य नित्यं व्यञ्जनावृत्तिमात्रगम्यत्वादलंकार वस्तुनोस्तु पाक्षिकतद्गम्यत्वाश्चेत्यर्थः । तथा अन्त्ययोः अलंकारवस्तुनोः वाच्ययोरपि शक्तिवृत्तिप्रतिबोध्ययोरपि । यतः उपस्कर्त्री उपकारिका । अस्तीति हेतोः सा इह ग्रन्थे उपपादिता । इयं उपमालंकृतिः पञ्चधा भवतीति संबन्धः । तदुक्तं सोदाहरणमपि रसगङ्गाधरे 'एवं भेदा उपमावस्त्वलंकाररसरूपाणां प्रधानव्यङ्गयानां वस्त्वलंकारयोर्वाच्ययोश्चोपस्कारकतया पञ्चधा । तत्र व्यङ्ग्यवस्तूपस्कारिका यथा - 'अनवरत परोपकरणव्यग्रीभवदमलचेतसां महताम् । आपात - काटवानि स्फुरन्ति वचनानि भेषजानीव' । अत्र तादृशां वचनान्यर्थद्वारा सेवमानस्य मनागप्यलुभ्यतः परिणामे परं सुखं भवतीति प्राधान्येन व्यङ्गयस्य वस्तुन उपस्कारिका भेषजोपमा । व्यङ्गयालंकारोपस्कारिका यथा - ' अङ्कायमानमलिके मृगनाभिपङ्कं पङ्केरुहाक्षि वदनं तव वीक्ष्य बिभ्रत् । उल्लास पल्लवित कोमलपक्षमूलाश्चञ्चपुढं चपलयन्ति चकोरपोताः । अत्र प्राधान्येन व्यङ्गये आरोपस्मारकचान्द्रकलङ्के भ्रान्तिमत्यलंकारे उपपादकस्य भालस्थमृगमदपङ्कविषयकस्याङ्काभेदारोपस्याङ्कसादृश्यरूप दोषमूलकत्वादुपमात्रालंकारः । रसोपस्कारिका तु तेषां यथा- - 'गुरुजनभयमद्विलोकनान्तः, समुदयदाकुलभावमावहन्त्याः । दरदलदरविन्दसुन्दरं हा हरिणदृशो नयनं न विस्मरामि' । नचात्र स्मृतिः प्रधानतया ध्वन्यत इति वक्तुं शक्यम् । न विस्मरामीति स्मृत्यभावनिषेधमुखेन स्फुटमावेदनात् । नापि पूर्वार्धगतत्रासौत्सुक्ययोः परस्पराभिभवकामयोः संधिः प्रधानम् । तस्य नायिका गतत्वेनानुवाद्यत्वात् उत्तरार्धंगतस्मृत्यङ्गत्वाच्च । तस्माद्भावसंध्युपमालंकाराभ्यामुपस्कृता स्मृतिपदगम्यः संतापोऽनुभावश्च विप्रलम्भमेवोपस्कुरुत