________________
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् ।
३८१ एवं पूर्णोपमा षोढाऽथ लुप्तैकोनविंशतिः। पड्विंशतिः समाख्यातास्त्युपमाभित्सहानया ॥ ५५ ॥ अन्येऽपि चित्रमीमांसाद्युदिताः शतशः किल । सन्ति लुप्तोपमाभेदास्ते नोच्यन्तेऽत्र विस्तरात् ॥५६॥ मालादिभेदादुपमाप्यनन्तैवं भविष्यति ।
संख्यातुमथ निर्णेतुं शक्यतेऽसौ कुतोऽविदा ॥ ५७॥ हरणान्तराण्यपि हंसमन्थरगामिनीत्यादीन्यूह्यानि ॥ ५४ ॥ तदेवं सर्वोप्ययमुपमाभेदः षड्रिंशतिसंख्याक एवेत्युपसंहरति-एवमिति । षडिति । अनयाऽनुपदोदाहृतया दीक्षितसंमतलुप्तोपमया सह उपमाभिद् अत्र संगृहीतोपमाभेदसंततिरित्यर्थः । षडिति । समिति ॥ ५५ ॥ ननु किं षड्विंशतिसंख्याका एव सर्वेप्युपमानभेदाः । नेत्याह–अन्येऽपीति । आदिना काव्यप्रकाशरसगङ्गाधरादयः । तथाचोक्तं काव्यप्रकाशे–'एवमेकोनविंशतिर्खप्ताः पूर्णाभिः सह पञ्चविं. शतिरिति खाभिमतोपमाभेदसंख्यां प्रख्याप्य 'अनयेनेव राज्यश्रीदैन्येनेव मनखिता । मम्लौ साथ विषादेन पद्मिनीव हिमांभसा' इत्यभिने साधारणे धर्मे । 'ज्योत्स्नेव नयनानन्दः सुरेव मदकारणम् । प्रभुतेव समाकृष्टसर्वलोका नितम्बिनी' इति भिन्ने वा तस्मिन्नेकस्यैव च बहूपमानोपादाने मालोपमा । यथोत्तरमुपमेयस्यो। पमानत्वे पूर्ववदभिनभिन्नधर्मत्वे । 'अनवरतकनकवितरणजललवभृतकरतरङ्गिः तार्थततेः । भणतिरिव मतिर्मतिरिव चेष्टा चेष्टेव कीर्तिरतिविमला ॥ मतिरिव मूर्तिमधुरा मूर्तिरिव सभा प्रभावचिता । तस्य सभेव जयश्रीः शक्या जेतुं नृपस्य न परेषाम्' इत्यादिका रशनोपमा च न लक्षिता। एवं वैचित्र्यसहस्रसंभवादुक्त. भेदानतिक्रमाचेति । शिष्टं तु स्पष्टमेव ॥५६॥ नन्वेवमन्यैः पूर्वाचार्यैः प्रपञ्चितासूत्रिताश्चोपमाभेदा अत्र विस्तरभयान्मा संगृह्यन्तामथापि वयैवाद्वैतामृतमञ्जयों रतिनीतिमुकुले-'भव्या निजैकसेव्या ददती चातुर्यतश्चतुर्वर्गम् । खस्मिन्नेव रतिमती सतीव मतिरेव जयति नीतिरपि' इत्युक्ताश्लेषतुल्ययोगितोपस्कृतोपमा। तथा मुकुलान्तरे-श्रुतिमपि विलङ्घयन्तं संदृष्ट्वा वैदिको न कः स्नायात् । यमिनामिवेह जिनमपि जिनमिव परकामिनीकटाक्षमपि' इति तदुपस्कृतमालो. पमा तद्वत् । 'स्वरसप्रकाशकानां यथायथा विकसनं सुविमलानाम् । विमलात्पा. षाणादपि तथातथा जायते रसः खच्छः' इति श्लेषकाव्यार्थापत्त्युपस्कृतोपमानो. पमेयलुप्तोपमा च । एवं कृष्णलीलामृतशिवभक्तिमुक्ताभरणादिषु संग्रथिता अपि विजातीयोपमाभेदाश्चात्र किमिति न संगृह्यन्त इति चेत्सत्यम् । प्राचीनाचार्योक्ततद्भेदसंग्रहकरणे विस्तरो भवति स्वोक्ततत्संग्रहे तु नासौ दण्डखण्डित इति पाण्डित्यविडम्बनमेव स्यात् । नचैवं तर्हि यावदुपलभ्यमानास्तेपि वकीयैः सह संगृह्यन्तां विस्तरदोषस्तु क्षीरार्णव इव गुणबाहुल्यादेव ग्रन्थे पराकरणीय इति वाच्यम् । आनन्त्यात्तदपि दुर्घटमेवेत्याह--मालादीति । एवमुक्तरीतिखीकारे