SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ साहित्यसारम् । [ पूर्वाध कविप्रसिद्धितः शास्त्रैः सह वा यो विरुद्धयति । कीर्तिस्ते सूर्यसंकाशा चम्पकस्रगिवेश्वरे ॥ १५८ ॥ किं नीत्या शक्तियुक्तस्य नखलेखा प्रियानने । अद्वैतज्ञानमाप्यापि कर्म कृत्वैव मुच्यते ॥ १५९ ॥ चायमर्थः - चन्द्रेति । हिमकरोद्योत इत्यर्थः । अतीति भावप्रधानो निर्देश: । परमारक्तत्वमस्तीति । 'रोहितो लोहितो रक्तः शोणः कोकनदच्छविः' इत्यमरः । तदुक्तम्—'अनौचित्यं कीर्तिलतां तरङ्गयति यः सदा' इति । उपलक्षणमिदं कण्ठाभरणोक्तानुमानविरोधान्तर्गतयुक्तिविरोधप्रतिज्ञाविरोधयोरपि । तदुक्तं तत्रैव तत्प्रकरणे । तत्र युक्तिविरुद्धं यथा - 'सुरभिमधुपान लम्पटभ्रमरगणाबद्धमण्डलीबन्धम् । कस्य मनो नानन्दति कूर्मांपृष्ठस्थितं कमलम्' । अत्र कूर्मीपृष्ठे कमलोद्गतेरयुक्तत्वायुक्तिविरुद्धमिदमिति । प्रतिज्ञाविरुद्धं यथा - ' यावज्जीवमहं मौनी ब्रह्मचारी च मे पिता । माता च मम वन्ध्यासीत्स्मराभोऽनुपमो भवान्' । इति च । अत्र तु प्रतिज्ञाविरोधः स्फुट एवेति दिक् ॥ १५७ ॥ ततः क्रमप्राप्तं द्विविधमपि विरुद्धं लक्षयति- कवीति । काव्यकर्तृप्रसिद्ध्या सहेत्यर्थः । सार्वविभक्तिकस्तसिः । क्रमेणोदाहरति- कीर्तिरिति । अत्र कीर्तेः सूर्यसादृश्यं श्रीवाल्मीक्यादिकविप्रसिद्धिविरुद्धमिति । तथा 'ईश्वरः शर्व ईशानः' इति कोशादीश्वरपदशक्यतावच्छिन्ने शिवे चम्पकमालायाः पुराणादौ चम्पकस्य नारदेन शप्त - त्ववर्णनात्सत्वकथनं शास्त्रविरुद्धमिति च लक्षणसंगतिः । उपलक्षणमिदं श्रौतस्मार्तादियावद्धर्मशास्त्रविरोधस्यापीति तात्पर्यम् । यथावा प्रथमोदाहरणं काव्यप्रकाशे – 'उपपरिसरं गोदावर्याः परित्यजताध्वगाः सरणिमपरो मार्गस्तावद्भवद्भिरियताम् । इह हि विहितो रक्ताशोकः कयापि हताशया चरणनलिनन्यासोदञ्चनवाङ्कुरकचुकः' । अत्र पादाघातेनाशोकपुष्पोद्गमः कविप्रसिद्धो न पुनरङ्कुरोद्गम इति ॥ १५८ ॥ ननु शास्त्रैरिति बहुवचनस्य कथं धर्मशास्त्रविरोधोदाहरणमात्रेण चारितार्थ्यमित्याशङ्कयार्थादिशस्त्रविरोधोदाहरणान्यपि संक्षिपन्नर्थ कामशास्त्रविरोधावुदा} हरति - किमित्यादिना क्रमेण चरणद्वयेन । शक्तियुक्तस्य शारीरबलवतः पुंसः 1 या संधिविग्रहादि षाङ्गुण्यसरण्या किम् । न किमपि प्रयोजनमित्यर्थः । अत्र सत्यपि शारीरबले षाड्गुण्यहीन स्यार्थशास्त्रेऽनर्थोपपादनात्तथैव लोके दर्शनाचार्थशास्त्रविरोधो बोध्यः । नखेति । इह कामशास्त्रे ' ग्रीवाकरोरुजघनस्तनपृष्ठिकक्षा हृत्पार्श्वगण्डविषये नखराः स्युः' इत्यनङ्गरङ्गीयवचनेन मुखे नखरेखाप्रदानानु तेस्तद्विरोधः स्फुट एव । यथावा काव्यप्रदीपे - 'विधाय दूरे केयूरमनङ्गाङ्गणमङ्गना । बभार कान्तेन कृतां करजोल्लेखमालिकाम्' इति । अथ मोक्षशास्त्रविरोधमाहअद्वैतेत्यर्धेन । 'ज्ञात्वा देवं मुच्यते सर्वपाशैः' इत्यादिश्रुत्यादिप्रमाणसहस्रेण निरुक्तात्मज्ञानोत्तरक्षण एव दृश्योच्छेदलक्षणमोक्षसिद्धेर्मध्ये कर्तव्यान्तरानपेक्षणा • न्मोक्षशास्त्रविरोधः प्रसिद्ध एव । यत्तु धर्मादिक्रमप्राप्तमोक्षशास्त्रविरोधस्थले योग २४४
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy