SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ विषरत्नम् ६] सरसामोदव्याख्यासहितम् । २४३ दुष्कमोऽनुक्रमो दुष्टो लोकतः शास्त्रतोऽथ वा । युवतिं देहि मुक्तिं वा कृष्ण ज्ञात्वा शृणोम्यहम् ॥ १५५॥ ग्राम्यः पत्नी रिरंसुः सन्नाश्लेषमभियाचते । संदिग्धः पृच्छति श्रीर्वा संपाद्या भक्तिरेव वा ॥ १५६॥ निर्हेतुः संत्यजाम्यद्य कामनामखिलामपि । औचित्यरहितं प्राहुश्चन्द्रालोकेऽतिरोहितम् ॥ १५७ ॥ काव्यप्रकाशे–'अस्त्रज्वालावलीढप्रतिबलजलधेरन्तरौर्वायमाणे सेनानाथे स्थितेऽस्मिन्मम पितरि गुरौ सर्वधन्वीश्वराणाम् । कर्णालं संभ्रमेण व्रज कृप समर मुञ्च हार्दिक्य शङ्कां ताते चापद्वितीये वहति रणधुरं को भयस्यावकाशः' । अत्र चतुर्थपादवाक्यार्थः पुनरुक्त इति ॥ १५४॥ दुष्क्रमं लक्षयति-दुष्क्रम इति । कण्ठाभरणे त्विदं क्रमभ्रष्टत्वेनोत्तम् । यथा-'क्रमभ्रष्टं भवेदार्थः शाब्दो वा यत्र न क्रमः' इति । तत्र शाब्दस्त्वसावुक्तः क्रमप्रयुक्तभन्नप्रक्रमत्वेन वाक्यदोषेघुप्रागेव । अयं खार्थ एवेति ध्येयम् । द्विविधमपि तमुदाहरति-युवतिमित्यनुक्रमेण । अत्र मुक्तापेक्षया युवतेस्तुच्छत्वस्य लोकत एव सिद्धत्वात्तदानाभावे मुक्तियाचनादाद्यः श्रवणस्य ज्ञानसाधनस्य श्रोतव्य इत्यादिशास्त्रैकसिद्धत्वेन तदुत्तरं श्रवणोक्तेर्द्वितीयश्च ज्ञेयः ॥ १५५ ॥ ग्राम्यमाह-ग्राम्य इति । तल्लक्षणं तु व्रीडाव्यञ्जकार्थत्वं स्फुटमेव । तमुदाहरति-पत्नीमिति । ग्राम्यपदमत्राप्य. नुकर्षणीयम् । तेन ग्राम्यः ग्रामीणः पुमानित्यर्थः । रिरंसुः रन्तुमिच्छुः । क्रीडोत्सुकः सन्नितियावत् । पत्नी खरमणी आश्लेषमालिङ्गनम् । अभियाचत इति योजना। अत्रार्थस्य तथात्वं स्पष्टमेवेति ग्राम्यदोषदूषितत्वमिति तत्त्वम् । तदुक्तम्-‘स ग्राम्योऽर्थो रिरंसादिः पामरैर्यत्र कथ्यते । वैदग्ध्यवक्रिमबलं हित्वैव वनितादिषु' इति । संदिग्धमभिधत्ते-संदिग्ध इति । इदं पृच्छतीत्यायुदाहरणेऽप्यन्वेति । संजातसंदेहः पुरुषविशेष इत्यर्थः । अस्यैव भोजराजः ससंशयत्वमाह । यथावा काव्यप्रदीपे भर्तृहरिवचनम्-'मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमुदाहरन्तु । सेव्या नितम्बा: किमु भूधराणां किमु स्मरस्मेरविलासिनीनाम्' इति । विस्तरस्तु तत्रैव ज्ञेयः । यथावा-‘एकः पपौ भुवनभीकरकालकूटमन्यः पपौ स्तनविषं खलु पूतनायाः । को वानयोरधिक इत्यनुचिन्त्य वृद्धाः सत्यं ब्रुवन्तु तमिमं वयमाश्रयामः' इति । अत्र शिव एवाश्रयणीय इति व्यञ्जनया प्रतिपिपादयिषितं तत्तु को वेत्यादिना संदेहविषयताक्रान्तमिति तथात्वमिति दिक् ॥१५६ ॥ एवं निर्हेतुमाह-निहतुरित्यर्धेन । एतदत्रापि समित्याद्युदाहरणे संबध्यते । निष्कामोऽहमित्यर्थः । अथ जयदेवमतमौचित्यरहितमपि संगृह्णाति-औचित्ये. त्यर्धेनैव । प्राहुर्जयदेवा इति शेषः । चन्द्रालोके एतन्नाम्नि ग्रन्थे इत्यर्थः। अति. रोहितं स्पष्टमिति यावत् । एवंच जयदेवाः चन्द्रेति, अतीति, औचित्येति, एतन्नामकमर्थदोषं प्राहुरित्यन्वयः। अत्रोदाहरणं तु द्वितीयपादमावृत्य ज्ञेयम् । तथा
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy