SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ कलिकालसर्वज्ञ श्री हेमचन्द्राचार्यवृत्तान्तम् लब्धजन्मा धृत विक्रमार्क भूपतेः द्वादशशताब्द्यां गूर्जरदेशस्य धन्धुकानाम्नि नगरे वि. सं. ११४५ तमे वर्षे कार्तिक शुक्ल पूर्णिमायां मोढजातीयवणिग्वंशे जनकचाचिग - जननीपाहिणी - तनयरूपेण चांगदेवनामाऽयं पञ्चवर्षीय ( मतान्तरे नववर्षीय) एक गुरुवराचार्य श्री विजयदेवचन्द्रसूरीश्वराणां पावनकरकमलाभ्यां महतोत्साहेनाङ्गीकृत्य पारमेश्वरीं प्रव्रज्यामलङ्कृत्य श्री सोमचन्द्रविजयेतिपुण्याभिधानं परमविनीतभावेनाssसाद्य गुरुप्रसादम्, मरुधर देशवर्ति - पिण्डवाडा निकटवर्तिनि 'अजारि' नाम्नि ग्रामे समाराध्य वागधिष्ठात्रीं श्री सरस्वतीदेवीमधिगतवान् चतुरचेतश्चमत्कारकृदनुपमं वैदुष्यम् । एकविंशतिवर्षीय एव महा मह पुरस्सरं निजपरमोपकारि गुरुवर करकमलयमलावाताचार्यपदवीको जगतिविख्यातोऽभूत् श्रीहेमचन्द्राचार्य इति नाम्ना । श्री देवेन्द्रसूरि - श्री मलयगिरिसूरिभ्यां सह गुर्वनुग्रह-प्राप्तश्री सिद्धचक्रमन्त्रं पद्मिनीनारी सान्निध्येऽवहितचेतसा संसाध्य प्रकटीभूततदधिष्ठायक श्री विमलेश्वरादधिगत्य भूपालप्रतिबोधकारकं वरं श्री सिद्धराज जयसिंह नृपं परमार्हत कुमारपाल - भूपालं च प्रतिबोध्य कृतवान् जैनधर्मोद्योतं समन्ततः । विद्वद्वृन्दवृन्दारकेणानेन सूरिणा स्वीयातुलप्रभावेण प्रवर्तितो हैमयुगः । साहित्यस्थानेकासु शाखासु व्याकरण - कोश - छन्दोऽलङ्कार - काव्यन्याय-तत्त्वज्ञान-योग-प्रभृति विषयानधिकृत्य मौलिकग्रन्थान् विरच्य कृता परमविरला साहित्योपासना | प्रवरसूरिभिस्तैः निजैक- जन्मनि या विविधसाहित्यरचना कृता तामवलोक्य न कोऽपि भुवने विद्यते यः स्वकीयं शिरो भूयो भूयो न धूनयेत् । एतत्सूरीश्वर - विरचित कृतितति - विलोकनेन तेषां सर्वतो व्यापिन्याः प्रतिभायाः प्रकाण्डं पाण्डित्यस्य च परिचयो भवति ।
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy