SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ छंदोनुशासन मुक्तशेषविरोधेन कुलिशत्रणलक्ष्मणा । उपस्थितं प्राञ्जलिना विनीतेन गरुमता ।। " जातिपक्षे रविपुला यथा “वधूभिः पीनस्तनीभिस्तुलीभिः कुक्कुमेन च । कालागरुधूपमैर्हेमन्ते जयति स्मरः ।। " व्यक्तिपक्षे यथा "महाकवि कालिदासं वन्दे वाग्देवतागुरुम् । यज्ज्ञाने विश्वमाभाति दर्पणप्रतिबिम्बवत् " तथा कामिनीभिः सुखं सङ्गः क्रियते पण्डितैरपि । यदि न स्याद्वारिवीचीचञ्चलं हन्त जीवितम् " जातिपक्षे मविपुला यथा सर्वातिरिक्तं लावण्यं बिभ्रती चारुविभ्रमा । स्त्रीलोकसृष्टिः मा नूनं निःसामान्यस्य वेधसः || ” व्यक्ति पक्षे यथा ॥ मनोभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखेः । खङ्गसंवादिनी: केका द्विधा भिन्नाः शिखण्डिभिः ।। " तथा "अदूरवर्तिनीं सिद्धि राजन्विगणयात्मनः । उपस्थितेयं कल्याणी नाम्नि कीर्त्तित एव यत् ||" जातिपक्षे सविपुला यथा । क्षणविध्वंसिनि काये का चिन्ता मरणे रणे । को हि मन्दः सहसैव स्वल्पेन बहु हारयेत् ।। " एवं व्यक्तिपक्षेऽप्यन्वेप्यम् । सङ्कीर्णाश्च विपुलाप्रकारा दृश्यन्ते । यथा क्वचित्काले प्रसरता क्वचिदापत्यनिघ्नता । शुनेव सारङ्गकुलं त्वया भिन्नं द्विषां बलम् ||” तुल्येऽपराधे स्वर्भानुर्भानुमन्तं चिरेण यत् । हिमांश्रुमाश्रु ग्रसते तन्मृदिम्नः स्फुटं फलम् ||" इत्यादि । ते स्वबुद्ध्याभ्युह्याः सर्वासां च (( ८२ • ८८ ८८ ८८ ८८ • ८८ : विपुलानां चतुर्थो वर्णः प्रायेण गुरुर्भवतीत्याम्नायः । वक्रप्रकरणं ॥ ४५ एकोsटाक्षरः पादचतुर्बुद्धाः क्रमात्परे पदचतुरूर्ध्वं चतुर्विंशतिधा ॥ एकः कश्चिदष्टाक्षरः पादस्ततोऽन्ये पादाः क्रमाच्चतुर्भिश्चतुभिर्वर्ण वृद्धाः कार्या इति पदचतुरूर्ध्व । तच न्यासभेदाच्चतुर्विंशतिधा स्थापना यथा ।
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy