________________
तस्मादन्नपुत्रादिमोक्षान्तफलसाधनत्वादस्ति प्रयोजनं छन्दःशास्त्रस्य ।
अथ यदुक्तं छन्दःसिद्धौ, हेयोपादेयव्यवस्थाराहित्यादनर्थकमिदं छन्दःशास्त्रमिति; तदप्यत एव नावकल्पते । सर्व हि विधिवाक्यं सावधारणं भवति, न न्वावधारणमितरनिवृत्तिमन्तरा दृष्टम् । यतश्चेदं छन्दोविधायकं शास्त्रमतो नूनमितरवारकेणानेन भवितव्यमिति सिद्धं हेयोपादेयव्यवस्थाप्रयोजकत्वं छन्दःशास्त्रस्य । सा च हेयोपादेयव्यवस्था त्रेधा।-विज्ञातव्यान्येव छन्दांसि न तु न विज्ञातव्यान्यपीति, विज्ञायैव च जपहोमयज्ञादिषु प्रवर्तेत न त्वविज्ञायापीति, भावाभावातिरेकप्रधाना सैका ॥ १॥ अथ "अनुष्टुभा यजति, बृहत्या गायति, गायत्र्या स्तौतीति" श्रूयते । तत्रानुष्टुभव यजेत न बृहत्या न गायत्र्या, तथा नृहत्यैव गायेत नान्यथा, एवं गायत्र्यैव सुवीत नान्यथेत्येवं विजातीयभावद्वयातिरेकप्रधाना द्वितीया ॥२॥ अथ-“पादस्यानुष्टुब् वक्रम्" "न प्रथमात् सौ.” “द्वितीयचतुर्थयोरश्चेति" सूत्रेभ्यो वक्रेषु, तथा “खरा अर्द्ध चा-- र्द्धम्" "अत्रायुङ्न ज” “षष्ठो जिति" सूत्रेभ्य आर्यासु विधिनिषेधप्रधाना तृतीया ॥३॥ यदि चेदं शास्त्रं न स्यादवश्यं तत्तर्हि तेष्वेतेषु कामचारः स्यादनर्थश्च प्रपद्येत । ततो नु खलु हेयान् हापयितुमुपादेयान् संचारयितुमुपदिशन्ति स्म ते कारुणिका भगवन्त आचायाः ॥-॥३॥
(१) अथ यदप्युक्तं-नाविज्ञातार्थज्ञापनार्थमिदं शास्त्रमारब्धव्यमिति, एतदप्यत एव प्रत्याख्यातं वेदितव्यम् । अन्तरेण शास्त्रारम्भमसम्भवाच्छन्दःखरूपावगमस्यैकान्तमुपयुक्तस्य ॥ “अनुष्टुभा यजति, बृहत्या गायति, गायत्र्या स्तौतीति” श्रूयते । तत्र न ज्ञायते कानुष्टुप् ? का बृहती ? का गायत्रीति । अज्ञात्वा प्रवर्तमानश्च पापीयान् स्यात् । यत्रापि सतोबृहती महाबृहती महासतोबृहतीत्याख्यायन्ते, तत्रैतांस्तावदच्छान्दसिको बृहतीविकारान् प्रतिपद्येत । छान्दसिकस्तु पादविशेषव्यवस्थया पतिविकारः सतो बृहती, त्रिष्टुब्विकारो महाबृहती, जगतीविकारो महासतोबृहती, इत्येवमध्यवस्यति । तथा च साधु यज्ञे प्रवर्तते । अन्यथा प्रवर्तमानस्यैतानि छन्दांसि यातयामानि स्युरित्यवश्यमेषां खरूपज्ञानायोपयुज्यते छन्दःशास्त्रारम्भः ॥ १॥
यदपि तैत्तिरीयका आमनन्ति-"तद्यथा ह वै सूतग्रामण्यः-एवं छन्दांसि । तेष्वसावादित्यो बृहतीरभ्यूढः । सतोबृहतीषु स्तुवते सतोबृहत् प्रजया पशुभिरसानीत्येव"-इति तत्र प्रजया पशुभिश्चाहं सन्मार्गवर्तिनः पुरुषादधिको भवानीत्याशयेन सतोबृहत्या स्तोतीत्यर्थप्रतिपत्तेरवश्यमर्थापेक्षित्वमुपदिश्यते नामधेयस्येति नामधेयावगमार्थमुपयुज्यते छन्दःशास्त्रारम्भः॥२॥
अथामनन्ति-"व्यतिषक्ताभिः स्तुवते"-इति । न चान्तरेण छन्दोवेदमृचः शक्या व्यतिषक्ताः कर्तुमित्युपयुज्यते छन्दःशास्त्रारम्भः ॥ ३ ॥ भूयांसश्चार्थवादा श्रूयन्ते छन्दोवेदस्येति तत्तदभ्युदयसिद्धावुपयुज्यते शास्त्रारम्भः ॥४॥
छ० ७