________________
यदप्युक्तं नास्य छन्दःशास्त्रस्य विज्ञातृषु सामर्थ्यविशेषोद्रेकादिफलोपधायकत्वमस्तीति, तदप्यत एव प्रत्याख्यातं भवति “अविदित्वा योऽधीते तस्य ब्रह्म निवीय, स पापीयान् भवति, अथ विज्ञायैतानि योऽधीते तस्य ब्रह्म वीर्यवत् , स जपित्वा हुत्वेष्वा तत्फलेन युज्यते"--इत्येवमाचक्षाणेन भगवता कात्यायनेनान्वयव्यतिरेकाभ्यां छन्दोविज्ञाने एवं यज्ञवेदसाध्ययावत्फलोपधायकत्वप्रतिपादनात् । श्रूयते चाभ्युदयसमर्पकत्वं छन्दोविज्ञानस्य । तथाहि-"तस्योष्णिग् लोमानि, त्वग् गायत्री, त्रिष्टुब्मासम् , अनुष्टुप् मावानि, अस्थि जगती, पतिर्मजा, प्राणो बृहती, स छन्दोभिश्छन्नः । यच्छन्दोभिश्छन्नस्तस्माच्छन्दांसीत्याचक्षते।" इत्याख्याय “छादयन्ति ह वा एनं छन्दांसि पापात्कर्मणो यस्यां कस्यांचिद्दिशि कामयते" ((ऐ.आ. २।११६) इत्यारण्यके समानायते, तस्मात् पुरुषस्य पापसंबन्धं वारयितुमाच्छादकत्वाच्छन्द इत्युच्यत इत्यस्ति प्रयोजनं छन्दःशास्त्रस्य ॥
तथा तैत्तिरीया अप्यामनन्ति-"प्रजापतिरग्निमचिनुत स क्षुरपविर्भूत्वा तिष्ठन् तं देवा बिभ्यतो नोपायन् ते छन्दोभिरात्मानं छादयित्वोपायन् तच्छन्दसां छन्दस्त्वम्" (तै.सं. ५।६।६) इति । तस्माचीयमानानिसन्तानस्य छादकत्वाच्छन्दस्त्वमित्यस्ति प्रयोजनं छन्दःशास्त्रस्य ॥ तथा छान्दोग्योपनिषदि श्रूयते-“देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्राविशन् ते छन्दोभिरच्छादयन् यदेभिरच्छादयंस्तच्छन्दसां छन्दस्त्वम्” (१।४।२) इति तस्मादपमृत्युं वारयतीति छन्द इत्युच्यते । ततोऽस्ति प्रयोजनं छन्दःशास्त्रस्य ॥ अथान्यो मन्त्रवर्णः श्रूयते “गायत्रेण च्छन्दसा त्वा छादयामि त्रैष्टुभेन च्छन्दसा त्वा छादयामि जागतेन च्छन्दसा त्वा छादयामि” इति ततश्छन्दसामेषां रक्षानुकूलसंवरणसाधनत्वादस्ति प्रयोजनं छन्दःशास्त्रस्य ॥ २॥
अथ 'पुरा असुरैः पराभूताः सुरा यदेभिर्गायत्रादिभिः खमात्मानं प्रच्छाद्य पुनस्तान् जिग्युस्तच्छन्दसां छन्दस्त्वमिति वृद्धपराशराद्युक्तेश्छन्दःसंवृतशरीरस्य शत्रुपरिभावकत्वं विजयशालित्वं च संसिद्धं भवतीत्यस्ति प्रयोजनं छन्दःशास्त्रस्य । स्मर्यते चायमर्थो भगवता कात्यायनेनापि सर्वानुक्रमणीसूत्रे-"अर्थेप्सव ऋषयो देवताश्छन्दोभिरभ्यधावन्” (स.खं. २) इति । “अन्नपुत्रादिमोक्षान्तं फलमात्माधीनं कर्तुमिच्छन्तो मधुच्छन्दःप्रभृतयः संवननान्ता ऋषयः देवताः सूक्तहविर्भागिनीः, छन्दोभिर्गायत्र्यादिभिरुपायभूतैस्तद्युक्तमन्त्रैर्वा 'अर्थस्य प्राप्तावयमेवोपाय इति' दृढसंकल्पाः श्रद्धयागच्छमिति हि तदर्थमाह-षड्गुरुशिष्योऽपि । अन्यच्चायमाह-(स. भा. उपसं.)
'ऋषिनामार्षगोत्रज्ञ ऋषेः संस्थानतामियात् । एकैकस्य ऋषेञ्जनात् सहस्राब्दा स्थितिर्भवेत् ॥१॥ छन्दसां चैव सालोक्यं छन्दोज्ञानादवाप्नुयात् ॥२॥ तस्यास्तस्या देवतायास्तद्भावं प्रतिपद्यते । यां यां विजानाति नरो देवतामिति निर्णयः ॥३॥ ऋष्यादिविज्ञानफलमनुभूय सुपूजितः।। खाध्यायस्य फलं पश्चाछुत्या दत्तं प्रपद्यते ॥ ४ ॥' इति ।