________________
या व्याघ्र
इत्यनयोर्माध्यदिनाभ्युपगतयोर्जगत्यनुहुभोविच्छेदों दृश्यते, विरतिर्गस्ति ।
'समित्रियांन आप ओषधयः सन्तु दुर्मित्रियास्तस्मै सन्तु योऽस्मान् द्वेष्टि यच वयं दिमः।' इत्यस्यां माध्यन्दिनीयानामाा निदनुष्टुमि न विच्छेदो न विरतिः।
'अन्धं तमः प्रविशन्ति येऽविद्यामुपासते। ततो भूय इव ते तमो य उ विद्यायां रताः ॥ (वाज. खं. ४०१९)
'या व्याघ्रं विषूचिकोभौ वृकं च रक्षतः ।
श्येनं पतत्रिणं सिंहं सेमं पात्वंहसः ॥' ' इत्यनयोरायोर्निदनुष्टबुष्णिहोरव्यवस्थिते विच्छेदविरती दृश्यते । ततो नु खलु विज्ञायते सर्वत्रैव छन्दःसिद्धौ विच्छेदविरत्यपेक्षा नास्तीति।
अथ पुनः
"क्षत्रस्य योनिरसिं, क्षत्रस्य नाभिरसि, मा वा हिंसीन्मा मा हिंसीः” इत्यत्र विराट् गायत्रीत्वमखीकृत्य द्विपदां विराजमभ्युपगच्छन्ति, ततः खलु सर्वत्रैव छन्दःसिद्धौ. विच्छेदापेक्षा लभ्यते।
अथानुष्टुभः सर्वछन्दस्त्वं प्रतिपादयितुं मैत्रायणीयानामानायते"अनुष्टुभो वा एतस्याः सत्यास्त्रीण्यष्टाक्षराणि पदानि-एक सप्ताक्षरम् । यत्सप्ताक्षरम् तस्य चत्वार्यक्षराणि एकस्मिन् पदे उपयन्ति त्रीण्येकस्मिन् । यत्र चत्वार्युपयन्ति सा जगती। यत्र त्रीणि स त्रिष्टप । यदष्टाक्षरं तेन गायत्री । यदनुष्टप -तेनानुष्टुप् । सवैरेवास्य छन्दोभिर्हतं भवति । छन्दःप्रतिष्ठानो वै यज्ञः छन्दसु वा वास्यै तद्यज्ञं प्रतिष्ठापयामः”
८। ८। ८।७ ८। ८। ८। ।
८ । ११ । १२ इत्येवमाचक्षाणेन गायत्र्यादीनां पादव्यवस्थानिर्भरत्वसमाख्यानात् सर्वत्र छन्दःसिद्धौ विरतेरप्यपेक्षास्तीत्युपगम्यते। तदित्यमसमञ्जसमेतत् । यत्तु यात्-नास्त्यसामञ्जस्यम् ; उभयथाप्युपपत्तेः । इदं ताक्द् ब्रूमः-अस्त्येव सर्वत्र वियमेन अन्द-' सिकविच्छेदविरतिप्रक्लप्तिरिति । 'सवितुस्त्वे सादौ 'सुमित्रियेसादौ चार्षिकपदानुपलम्मेऽपि छान्दसिकपदस्याक्षरगणनासिद्धस्थापलापायोग्यत्वात् । यत्र त्वक्षरगणना न समानोति तत्रापि "क्षेप्रसंयोगैकाक्षरीभावान व्यूहेद् (ऋ.सर्वा.३)इति कात्याययोतदिन उच्चारणसौकर्यानुकूल्येन व्यूहनाद् गणना द्रष्टव्या । यथा- .
रुचं नो धेहि ब्राह्मणेषु च राजसु धारय ।
रुचं वैश्येषु शूद्वेषु मयि धेहि रुचारुचम् ॥ इत्यादौ हिकारेकारस्य झकाराकारस्य वा अविद्यमानवद्भावादष्टाक्षरत्वम् । तथा