________________
५८.
समुच्चयो वा (३) समितिनिपातस्य उनत्तिवृत्तेन समुच्चयो वेति (४) । संज्ञाशब्दोऽयमखण्डवत् प्रतिपन्नः । अभिप्रायविशेषात्तु तं तं पदविभागमन्वाचक्षतं नैरुक्ताः । एवमिहापि यथार्य्याजातौ षष्टडकारादिभूतलकारादुत्तरस्य कलात्रयस्य नखान्यतररूपतयाभिनेतव्यस्य निपातरूपत्वाद्विभिन्नपदत्वमेवाधिगम्यतेऽथाप्यखण्डवदुपचारः ( ५ ) । एवमेवान्यत्रान्यत्रापि द्रष्टव्यम् ।
अथ प्रकारान्तरेणायं समासो द्वेघा - पादखण्डः, पदखण्डश्च । यत्र समासारम्भकपदयोः पूर्वोत्तरपादत्वं तत्र पादखण्डः, अन्यत्र पदखण्डः । स चायं विवक्षाधीनः । तेन भक्षभक्षसमासस्य पादखण्डत्वेऽक्षरपङ्किः सम्पद्यते, पदखण्डत्वे तु चम्पकमाला स्यात् । तत्र पादखण्डः समासान्तरेण गर्भितश्चागर्भितश्च भवति, पदखण्डस्त्वगर्भित एव । अथ दिलविकल्पाद्यन्यतमसमासे समस्तयोर्द्वयोः प्रयोगादेकः श्लोको भवति । तदिदं मन्दं मन्द' मिलादिवत् द्विरुतिर्न समासः । अथ वैदिकानां तु समस्तेकदेशद्विरुत्त्यापि छन्दः सिद्धिर्द्विर्वचनाभावेन समासाभावेन च । यथा त्रिपदा द्विपदा एकपदा ऋक् ॥
इति समासवादः ।
अथ छन्दः पदवादः ।
अथातः पदप्रतिपत्तौ जिज्ञासा समुपतिष्टते- किं तावत् प्रस्तारसिद्धखरूपेषु पदत्वेनाभ्युपगतेषु द्वयोश्चतुर्णां वा सजातीयानां विजातीयानां वा समवायेन छन्द:सिद्धिरस्ति ? किंवा प्रखारसिद्धखरूपे छन्दस्त्वेनाभ्युपगते विच्छेदविरतियत्यपेक्षं पदविशेषव्यवस्थानमस्तीति । कुत एतत् ? उभयथा ह्यत्र प्राचां व्यवहारा उपलभ्यन्ते । लौकिकास्तावन्– विषमार्धसमसमत्वेनाभ्युपगतेषु वृत्तेषु विजातीयानां सजातीयानां वा विरतिमत्पदानां द्विर्वाकेन चतुर्वाकेन वा छन्दः साध्यते, तत्तर्हि यतिमत्पदस्य षड्वाक्रेनाष्टवाक्रेन वा कस्माच्छन्दः सिद्धिरपोह्यते ? यदि तूपदेशलाघवायाधिगमसौकर्याय वा विरतिमन्पदे यतिव्यवस्थापेक्ष्यते, तत्तर्हि वरमस्मिन् छन्दस्येव विच्छेदविरतियतिभेदानपेक्षं यतयः प्रकल्प्यन्तामलमर्वजरतीयाभ्युपगमेन ।
अथ वैदिकाः पुनश्चतुरुत्तराणि छन्दांस्यभ्युपगच्छन्त चतुर्विंशत्यक्षरादिकाया वाचो गायत्रीत्वादिकमभिख्यापयन्तश्छन्दस्येव विच्छेदविरतियतिमेदानपेक्षं यतिव्यवस्थया पदसिद्धिं मन्यन्ते । अन्तरेणापि तु यतिं पदव्यवस्थामास्थाय छन्दः खरूपसिद्धिं प्रति जानते । तत्रेयं विप्रतिपत्तिः
1
'सवितुस्त्वा प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ॥'
'तेजोऽसि शुक्रमस्यमृतमसि धामनामासि प्रियं देवानामनापृष्टं देवयजनमसि ॥'