________________
)
and
१ अध्यायः] छन्दशामा यथावंशत् (६) । स ई ममाद् महि कर्म करने महामुक (क) करत आमा सत्यमिन्द्र सत्य इन्दुः (६)॥' (ऋग्वेदे-अ० २
अ न्द रम०१) षष्ट्यक्षरमतिशक्करी । यथा'साकं जातः क्रतुना साकमोजसा ववक्षिथ (1) साकं वृद्धो वीर्यैः सासहिधो विचर्षणिः (२) । दाता राधः स्तुवते काम्यं वसु (३) सै न सचद्देवो देवं (४) सत्यमिन्द्रं सत्य इन्दुः (५)॥' (ऋग्वेदे-अ० २ अ० ६ व० २८ मं० ३) .
षट्पञ्चाशदक्षरा शक्करी । यथा'प्रौष्वस्मै पुरोर्थ (१) मिन्द्राय शूषमर्चत (२)। अभीकै चिदु लोककृत् (३) सङ्गे समत्सु वृत्रहा (४) ऽस्माकै बोधि चोदिता (५) नभन्तामन्य॒केषाम् (६) ज्याका अधिधन्वसु (७) (ऋग्वेदे-अ० ८ अ० ७ व० २१ मं० १) . द्विपञ्चाशदक्षरमतिजगती। यथा
‘स भ्रातरं वरुणमन आववृत्स्त्र (6) देवाँ अच्छा सुमती यज्ञवनसं (२) ज्येष्ठं यशवनसम् (३) । ऋतावानमादित्यं चर्षणीतं (१) राजानं चर्षणीतम् (५) ॥'
(ऋग्वेदे-अ० ३ अ०४ व० १२ मं० २) अष्टाचत्वारिंशदक्षरा जगती । यथाइन्द्र मित्रं वरुणमनिमूतये (१) मारत शो अदितिं हवामहे (२)। रथं न दुर्गाद्वसवः सुदानवो (३) विश्वस्मानो अंहसो निष्पिपर्तन (४)॥
(ऋग्वेदे-अ० १ अ० ७ व २४ मं० १) अथ लौकिकम् । ४।८॥ __ अधिकारोऽयमाशास्त्रपरिसमाप्तेः । पूर्वेषां छन्दसां वैदिकत्वमेव । इतः प्रभृत्यार्यादीनां चूलिकापर्यन्तानां लौकिकत्वमेव । समान्यादीनामुत्कृतिपर्यन्तानां वैदिकत्वं लौकिकत्वं च । अत्र वैदिकच्छन्दसां प्रस्तावे प्रसङ्गाद्वेदवदनादिमुनिपारम्पर्यागतं स्मृतिपुराणेतिहासादिषु दृश्यमानमार्यादिदण्डकपर्यन्तं लौकिकच्छन्दोजातमधिक्रियते । तन्मूलत्वात्काव्यस्य । काव्यं च कीर्तिरूपत्वादानन्दहेतुत्वाच्च पुरुषार्थः ॥
आत्रैष्टुभाच यदार्षम् । ४।९॥ आङभिविधौ। त्रिष्टुबेव त्रैष्टुभम् । स्वार्थे तद्धितः। गायत्र्यादित्रिष्टुप्पर्यन्तं यदार्ष छन्दोजातं वैदिके व्याख्यातं, लौकिके च तत्तथैव द्रष्टव्यम् । किं तदार्षम् ? चतुर्विशत्यक्षरा गायत्री, अष्टाविंशत्यक्षरोष्णिक्, द्वात्रिंशदक्षरानुष्टुप् , षट्त्रिंशदक्षरा बृहती, चत्वा. रिंशदक्षरा पतिः, चतुश्चत्वारिंशदक्षरा त्रिष्टुप् । चः समुच्चये ॥
१. २. ३. एषु व्यूहान्यूनता परिहार्या. ४. 'ग्लिति समानी' (पि० सू० ५।६) - इति सूत्रबोधितं छन्दः. ५. 'आर्षमा त्रैष्टुभात्स्मृतम् । त्रिष्टुप्पतिश्च बृहती अनुष्टुबुष्णि
रितम् ॥ गायत्री स्यात्सुप्रतिष्ठा प्रतिष्ठा मध्यया सह । अत्युक्तोक्का आदितश्च एकैकाक्षरवर्जितम् ॥ (३३१।३-४) इत्यानेये।