SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। 'देव इन्टो नराशसं (1) स्त्रिवरूथस्त्रिवन्धुरो (२) देवमिन्द्रमवर्धयत् (३)। गगनं शितिपृष्ठानामाहितः (४) सहस्रेण प्रवर्तते (५) मित्रावरुणेदस्य होत्रमहतो (६) बृहस्पतिः स्तोत्र (७) मश्विनाध्वर्यवं (८) वसुवने वसुधेयस्य वेतु यज (९)॥' (यजुर्वेद-अ० २८ मं० १९) धृत्यष्टिशक्करीजगत्यः।४।५॥ कृतेरधस्ताद्धृतिरष्टिः शक्करी जगतीत्येते शब्दाः क्रमेण व्यवस्थापनीयाः ।। पृथक्पृथक्पूर्वत एतान्येवैषाम् । ४।६॥ एषां धृत्यादीनां पूर्वतः पृथक्पृथगेतान्येव शब्दरूपाणि विन्यसेत् । पृथक्पृथग्ग्रहणं प्रत्येकं पूर्वत्वज्ञापनार्थम् । अन्यथा हि समुदायपूर्वत्वमेषां स्यात् । तेनायमर्थः-धृतिशब्दात् पूर्व धृतिशब्दः, अष्टिशब्दात्पूर्वमष्टिशब्दः, शक्करीशब्दात्पूर्व शक्करीशब्दः, जगदीशब्दात् पूर्व जमातीशब्दः ॥ द्वितीयं द्वितीयमतितः । ४ । ७॥ अत्र द्वितीयं द्वितीयं शब्दरूपमतिशब्दात्परतः प्रयोक्तव्यम् । एवं सत्युत्तरेषां छन्दसामेताः संज्ञाः क्रमेण भवन्ति । तत्र षट्सप्तत्यक्षरमतिधृतिः । यथा 'स हि शों न मारुतं तुविष्वणि (1) रमस्वतीपूर्वस्विष्टनि (२) रानास्त्रिष्टनिः (३) । आदव्यान्यादि (१) यज्ञस्य केतुरर्हणा (५)। अर्ध सास्य हर्षतो हषीवतो (६) विश्व जुषन्त पन्या (७) नरः शुभेन पन्थाम (८)॥' (ऋग्वेदे-अ०२ अ. १ व० १३ मं० १) द्वासप्तत्यक्षरं धृतिः । यथा'अवर्मह इन्द्र दाहहि श्रुधी नः (१) शुशोच हि द्यौःक्षा न भीषाँ अद्रियो (२) घृणान भीषा अद्रिवः (३)। शुष्मितमो हि शुष्मिमि (8) धैरुयेमिरीयसे (५)। . अपूरुषघ्नो अप्रतीत घर सत्त्वमि (६) स्त्रिसप्तः शुदसत्वमिः (७) ॥' (ऋग्वेदे-अ०१ अ० १ व० २२ मं० ६) अष्टषष्टयक्षरमत्यष्टिः । यथा'अदर्शि गातुरुरवे वरीयसी (१) पन्था तस्य समयंस्त रश्मिभि (२) श्चक्षुर्भगस्य रश्मिभिः (३) । युक्षं मित्रस्य सादन (8) मर्यम्णो वरुणस्य च (५)। अर्थादधाते बृहदुक्थ्यं वयं (६) उपस्तुत्य बृहद्वयः (७)॥' (ऋग्वेदे-अ० २ अ० १ व० २६ मं० २) चतुःषष्ट्यक्षरमष्टिः । यथा'त्रिकद्रुकेषु महिषो याशिरं (१) तुविशुष्मस्तृपत्सोममपिब (२) द्विष्णुना सुतं १. एषु व्यूहान्यूनता परिहार्या.
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy