________________
३ अध्यायः ]
छन्दः शास्त्रम् ।
संस्तारपङ्किर्बहिः । ३ । ४३ ॥
यदा तावेव जागतौ पादौ वहिर्भवतः, मध्ये च गायत्री, तदा 'संस्तारपङ्किः' नाम
छन्दः । यथा
“पि॒तुभृतो॒ न तन्तु॒मित्सु॒दान॑व॒ (2) प्रति॑ दु॒ध्मो यजा॑मसि (२) । उ॒षा अ॒प॒ स्वसु॒स्तम॒ः (३) संव॑र्तयति व॑र्त॒नं रा॑जा॒तत (४) ॥' (ऋग्वेदे - अ० ८ अ० ८ व०, ३० मं० ३,४ ) अक्षरपङ्किः पञ्चकाश्चत्वारः । ३ । ४४ ॥
पञ्चाक्षरैश्चतुर्भिः पादैः ‘अक्षरपङ्क्तिः' नाम छन्दः । ननु चत्वारिंशदक्षरा पश्छिन्दः, तत्कथं ‘पश्चकाश्चत्वारः’ इत्युच्यते ! तत्रोत्तरम् - 'द्वावप्यल्पशः ' ( पि० सू० ३।४५ ) इत्यस्मात् सिंहावलोकितन्यायेनाल्पग्रहणमनुवर्तते । तेन परल्पत्वं विशेषात्प्रतिपादितं भवति । यथा
'श्वा न तायुं (१) गुहा चत॑न्तं॒ (२) नमो॑ यु॒जानं (३) नमो॒ वह॑न्तम् (४) ॥'
२५
(ऋग्वेदे - - अ० १ अ० ५ व० ९ मं० १)
द्वावप्यल्पशः । ३ । ४५ ॥
पञ्चग्रहणमनुवर्तते । पश्चाक्षराभ्यां पादाभ्यामल्पशः पङ्क्तिर्नाम छन्दो भवति, कचिदेव वेदे न सर्वत्र ॥ यथा-
‘सदा॑ वि॒श्वायुः (१) शर्म॑ स॒प्रथा॑ः । ' ( तै० आ० ४।११ )
पदपङ्क्ङ्किः पञ्च । ३ । ४६ ॥
'पञ्चकाः' इत्यनुवर्तते । यदा पञ्चाक्षराः पञ्च पादा भवन्ति, तदा 'पदपङ्क्तिः' नाम छन्दः । यथा
'घृ॒तं न पूतं (१) त॒नूर॑रे॒पाः (२) शुचि॒ हिर॑ण्यम् (३) । तसे रुक्मो न ( ४ ) रौचत स्वधावः (५) ॥'
(ऋग्वेदे - अ० ३ अ०५ व ० १० मं० ६ )
चतुष्कषट्कौ त्रयश्च । ३ । ४७ ॥
१. कात्यायनमते त्वियं दशाक्षरपादद्वयवती द्विपदा विराट् । शौनकेन पक्षद्वयमयुक्तम् — 'विराजो द्विपदाः केचित्सर्वा आहुश्चतुष्पदाः । कृत्वां पञ्चाक्षरान् पादांस्तांस्तथाक्षरपङ्कयः ॥' (ऋ० प्रा० शा ० १७१५० ) इति । साङ्ख्यायनोऽप्याह – 'उत्तरस्या दशाक्षरों, तामक्षरपङ्क्तिरित्यप्याचक्षते ।' ( श्रौ० सू० ७ २७ ) इति ।
-
२. भुरिग्रूपत्वादेकाक्षर धिक्यम् । कात्यायनेन तु 'पञ्चकाश्चत्वारः षट्चैकः' ( सर्वा • ४१२ ) इत्येव सूत्रितम् ।
छ० शा ० ३