SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ २ अध्यायः] छन्दःशासम् । ततोऽनन्तरं गुरुराह-'ध्रादिपरः' धारणार्थावबोधपरोऽसौ यदा स्यात्तदा धियं लभते। भूयोऽपि शिष्यः पृच्छति-किं वद' किं कुर्वनसौ तां षियं लभते ! तद्वद । तत्राह गुरुः–'न हसन्' हासादिचापल्यमकुर्वाणवां धियं लभत इति ॥ . इति भट्टहलायुधकृतायां छन्दोवृत्तौ प्रथमोऽध्यायः। द्वितीयोऽध्यायः। छन्दः ।२।१॥ अधिकारोऽयमाशास्त्रपरिसमातेः । इत ऊर्ध्व यद्वक्ष्यामश्छन्दखत्रोपतिष्ठते। छन्दःशब्देनाक्षरसंख्यावच्छेदोऽत्राभिधीयते ॥ • गायत्री। २।२॥ अधिकारोऽयमाद्वादशसूत्रपरिसमाप्तेः । 'तान्युणिग्-' (पि. सू. २११४) इत्यादिसूत्रात्प्राग्यदुच्यते छन्दः, तद्गायत्रीसंज्ञं वेदितव्यम् ॥ दैव्येकम् । २।३॥ एकाक्षर छन्दो दैवी गायत्रीति संज्ञायते। तत्रायं प्रदर्शनोपाय:-चतुरजकीडायामिव चतुःषष्टिकोष्ठान् लिखित्वा तत्र प्रथमपडौ आषांनाम लिखित्वा द्वितीयादिकोष्ठेष्वकानामुपरि गायत्र्यादिसप्तच्छन्दसां नामानि विन्यसेत् । ततो द्वितीयायां पङ्कौ प्रथमकोष्ठे दैवीशब्दं विन्यसेत् , संज्ञाज्ञापनार्थम् । द्वितीये एक (१) संख्या विन्यसेत् ॥ आसुरी पञ्चदश । २॥४॥ आसुरी गायत्री पञ्चदशाक्षरा । तानि चाक्षराणि 'ग्लो' (पि. सू० १११४) इसधिकाराद्गुरूणि लघूनि वा यथासंभवं द्रष्टव्यानि । अत्र तृतीयायां पङ्खौ प्रथमे कोष्ठे आजुरीशब्दं लिखित्वा द्वितीये कोष्ठे पञ्चदश (१५) संख्या लिखेत् ॥ . प्राजापत्याष्टौ । २॥५॥ प्राजापत्या गायत्र्यष्टाक्षरा भवति । यत्र क्वचिद्वदेऽष्टाक्षरं छन्दवत्प्राजापत्या गायत्रीति ज्ञेयम् । चतुर्थ्यामत्र पडौ प्रथमे कोष्ठे प्राजापत्याशब्दं लिखित्वा द्वितीयेऽष्ट (८) संख्या लिखेत् ॥ यजुषां पद् । २॥६॥ यजुषां गायत्री षडक्षरा भवति । यत्र कचिद्वेदे षडक्षरं छन्दखद्याजुपी गा प्रति संज्ञायते । अत्र पञ्चम्यां पङ्खौ प्रथमे कोठे याजुषीशब्दं व्यवस्थाप्य द्वितीय श्ट् (६) संख्या लिखेत् ॥ १. 'चतुःषष्टिपदे लिखेत् ।' (अ० पु. ३१९३५)
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy