SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। विसर्जनीयानुखारजिह्वामूलीयोपध्मानीयानां ग्रहणम् । ध्रादयः परे यस्मात्स धादिपरः। ततश्चायं सूत्रार्थः-व्यञ्जनसंयोगात्पूर्वस्य हखस्यानुखारविसर्जनीयजिह्वामूलीयोपध्मानीयेभ्यश्च पूर्वस्य गुरुसंज्ञातिदिश्यते ॥ 'हे।१।१२॥ ग इत्यनुवर्तते। हे इति द्विमात्रोपलक्षणार्थम् । ततश्चायं सूत्रार्थः-द्विमात्रिकस्य दीर्घस्य 'ग' इति संज्ञा क्रियते ॥ लौ सः।१।१३॥ स इति गकारस्य परामर्शः। स गकारो द्विमात्राः-गणनायां द्वौ लकारौ कृत्वा गणयितव्यः॥ ग्लौ।१।१४॥ अधिकारोऽयमाशास्त्रपरिसमाप्तेः। यत्र विशेषान्तरं न श्रूयते तत्र 'ग्लौ' इत्युपतिष्टते, 'गायत्र्या वसवः' (पि० सू० ३।३) इत्येवमादिवत् । प्लुतेनेह व्यवहारो नास्ति ॥ अष्टौ वसव इति । १ । १५॥ अत्र शास्त्रे वसव इत्युच्यमानेऽष्टसंख्योपलक्षिता गुरुलघुखरूपा वर्णा गृह्यन्ते ।। किकप्रसिद्धथुपलक्षणार्थमिदं सूत्रम् । तेन चतुर्णा समुद्राः, पञ्चानामिन्द्रियाणि, इत्येव दयः संज्ञाविशेषा लौकिकेभ्यः प्रत्येतव्याः । इतिकारोऽध्यायसमाप्तिसूचकः ॥ इह ध्यादीनामुपादानप्रयोजनं वर्ण्यते-अध्ययनाद्धर्भवति । यस्य धीस्तस्य श्रीः, बुद्धिपूर्वकत्वाद्विभूतेः । यस्य श्रीस्तस्य स्त्री, अर्थमूलकत्वाद्गार्हस्थ्यस्य । 'वरा सा' इत्यनेन सर्वेषां स्त्रीसाधनोपायानां बुद्धेरुपायस्य माहात्म्यं दर्शयति। तथा चोकम्-'अर्धाकुलपरीणाहजिहानायासभीरवः । सर्वाङ्गीणपरिक्लेशमबुधाः कर्म कुर्वते॥' तत्राह शिष्यः'का गुहा' ? गुहाशब्दः स्थानवाचकः । का गुहा यत्रासौ तिष्ठति ? । उपाध्यायो ब्रूते'वसुधा'। पृथिव्यां लभ्यते धी त्र विषादः कर्तव्यः । पुनरप्याह शिष्यः-सा ते व? सा धीस्त्वयोपदिष्टय पृथिव्यां काश्रयस्थितेन लभ्यते। तत्र पुनराचार्य आह-'गृहे'। पुनरप्याह शिष्यः-'कदा सः' स गृहस्थः पुरुषः कदा कस्मिन्काले तां धियं प्राप्नोति ? । ___१. 'ए ओ क्वचित्प्राकृतके लघूस्त' (१६) इति वाणीभूषणे। २. सङ्ख्येयपरैः पदैर्लोकव्यवहारात्सङ्ख्या लक्ष्यते । 'वसवोऽष्यै च चत्वारो वेदा इत्यादि लोकतः। ( ३२८१३) इत्यग्निपुराणे । तथा च-'समुद्र (६।१९ इत्यादी) पदेन 'वेद' (१०) पदेन चात्र चतुःसङ्ख्योपलक्ष्यते । एवं 'इन्द्रियाणि (६४१ इ०) 'भूतानि (३० इ०) 'कामशराः' (६।४२) इत्येतैः पञ्च । 'ऋतवः (३॥८॥३०) रसाः' (६॥३३ इ०) इति षट्। 'ऋषयः' (३।९ इ.) खराः' (१६३०) इति सप्त। वसवः (३३३६०) इत्यष्टौ । 'दिशः' (३१५इ०) इति दश। 'रुद्राः' (३५६इ.) नोकादश । 'आदित्याः' (३।४ इ० ) मासाः' (२९) इति द्वादशेति ज्ञेयम् ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy