SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः। ४ अथ मात्रासमान्याह द्विगुणितवसुलघुरचलधृतिरिति ॥ ३१॥ (१) __वर्णच्छन्दोऽप्येतद् द्विगुणितवसुपदस्योत्तरत्राऽनुवृत्तिसिद्ध्यर्थं प्रकी केष्वभ्यधायि । तेन मात्रासमकादिषु षोडशमात्रत्वमधिकृतं भवति । द्विगुणाः वसुलघवोऽष्टौ लघवो यस्यां साऽचलधृतिरिति कथ्यते । चकाराद्गीत्यायेंत्यपि संज्ञा भवति, इति पिङ्गलमतसङ्ग्रहः । षोडशलघुपादेत्यर्थः ॥ ३१॥ मात्रासमकं नवमो ल्गान्तम् ।। ३२ ॥ (२) यत्र पादे नवमो ल लघुरेव गुरुश्चाऽन्ते नियतस्तन्मात्रासमकसंज्ञम् । नवमाऽन्त्ययोर्लघुगुरुनियमाच्छेषे नियमाऽभावः सूचितः । सर्वथा षोडशमात्रता कार्येति भावः। सर्वेषु मात्रासमेषु सममात्रा परेण युक्ता न कायेंत्यपि सम्प्रदायः । ततश्च प्रथमे जगणाभावाञ्चत्वारो गणविकल्पाः। (१) उदाहरणान्तरं यथा छन्दोवृत्तौ" ... १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ म-द-क-ल-ख-ग-कु-ल-क-ल-र-व-मु-ख-रि-णि १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ वि-क-सि-त-स-र-सि-ज-प-रि-म-ल-सु-र-भि-णि ॥ १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ . गि-रि-व-र-प-रि-स-र-स-र-सि-म-ह-ति-ख-लु १ २ ३ ४ ५ ६ ७ ८ ९ १०१ १२ १३ १४ १५ १६ र-ति-र-ति-श-य-मि-ह म म हृदि वि-ल-स-ति ॥ . (२) उदाहरणान्तरं यथा छन्दोवृत्तौ ल. गु. अश्मश्रमखो sss, विरलैर्दन्तै- ।।।ss, गम्भीराक्षो मितनासाग्रः॥ 55ss, Isss. निर्मासहनुः स्फुटितैः केशै- ssis, ।। 55, . त्रासमकं लभते दुःखम् ।। 55।।, sss.
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy