________________
द्वितीयोऽध्याया।
१७
__इयं सखे ! चन्द्रमुखी स्मितज्योत्स्ना च मानिनी ।
इन्दीवराक्षी हृदयं दन्दहीति तथापि मे ।। आये भ-विपुलोदाहरणम्
उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता ।
समौ हि शिष्टैराम्नातौ वय॑न्तावामयः स च ॥ (शि.२-१०) तृतीये
प्रोल्लसत्कुण्डलप्रोतपद्मरागदलत्विषा ।
कृष्णोत्तरासगरुचं विधञ्चौतपल्लवीम् ॥ (शि.२-१६) रेफविपुलायाः क्रमणोदाहरणानि
सकारनानारकासकायसाददसायका। रसाहवा वाहसारनादवाददवादना ॥ (शि.१६-२६) . महाकवि कालिदासं वन्दे वाग्देवतां गुरुम् । यज्ज्ञाने विश्वमाभाति दर्पणे प्रतिबिम्बवत् ॥ कामिनीभिः सह प्रीतिः कस्मै नाम न रोचते ।
यदि न स्याद्वारिवीचिचञ्चलं हन्त जीवितम् ॥ न-विपुलोदाहरणानि क्रमेण
युयुत्सुनेव कवचं किमामुक्तमिदं त्वया । तपस्विनो हि वसते केवलाजिनवल्कले ॥ (कि.११-१५) अथानाथाः प्रकृतयो मातृबन्धुनिवासिनम् । मौलैरानाययामासुर्भरतं स्तम्भिताश्रुभिः ॥ (र. १२-१२) तव मन्त्रकृतो मन्त्रैर्दू रात्संशमितारिभिः।
प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः ॥ तत्रत-विपुलोदाहरणानि
सा वैदुष्ये प्रौढियदि सर्वशास्त्रानुगामिनी। सा शूरता श्रेष्ठा यदि सर्वशास्त्रानुगामिनी ॥ वन्दे गुरु रामेश्वरं सर्वशास्त्रविशारदम् ॥ विस्मराः कम्प्रशिरसो यस्योक्तौ पण्डिताः परे ॥ लोकवत्प्रतिपत्तव्यो लौकिकोऽर्थः परीक्षकैः।
लोकव्यवहारं प्रति सदृशौ बालपण्डितौ ॥ .. म-विपुलोदाहरणानि
सखा गरीयाशत्रश्च कृत्रिमस्तौ हि कार्यतः। स्याताममित्रौ मित्त्रे च सहजप्राकृतावपि ॥ (शि.२-३६) यियक्षमाणेनाऽऽहूतः पार्थेनाथ द्विषन्मुरम् । . अभिचैद्यं प्रतिष्ठासुरासीत्कार्यद्वयाकुलः ॥ (शि.२-१)