SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः। आर्यापूर्वाधं यद्यकेनाधिकेन गुरुणा निधने अन्ते युक्तं स्यात् । इतरच्च द्वितीयं समस्तं यदीयमधं तद्वत्पूर्वार्धवदियमार्यागीतिरिति मुनिनोक्ता । आर्यायां हि पूर्वार्धे सगुरुकाः सप्त गणाः । इह तु पूर्णा अष्टौ गणा अर्धद्वयेऽपि भवन्ति । अन्तिमस्तु गणो द्विगुरुरेव । अन्यत्सर्वमार्यापूर्वार्धतुल्यमेवेति भावः । अत्रार्या पूर्वार्धविकल्पानामष्टमगणे विकल्पाभावात्परस्परताडने जातोऽङ्को द्वादशसहस्राण्यष्टौ शतानि च पूर्वार्धे । उत्तरार्धेऽपि तावदेव । अन्योन्यहतौ जाता मुख्यगीतिवद् भेदसङ्ख्या। अङ्कतोऽपि १६३८४०००० (१) केचित्त्वत्रोत्तरार्धेऽर्धशब्दमपठित्वा इतरदाया एवोत्तरार्धं तद्वदन्तेऽधिकैकगुरुयुक्तं स्यात्साऽऽर्यागीतिरिति । आर्यापूर्वार्धमित्यत्र समस्तमप्या शब्दं षष्ठयन्तं समासान्निष्कृष्टमनुषज्य पूर्वार्धस्याष्टगणत्वेन द्वात्रिंशन्लौ १ ग्लौ २ स. गु. ३ स. गु. ४ स. गु.५ ज. ६ स.गु.७ स. = अजमज-रममर-मेकं प्रत्यक- चैत-न्यमीश्व-रं ब्रह्म परम् ॥ ।।।।।।।।, 55, 55, 55, ।।, 55, ।।. स.गु.१ स.गु.२ स. ३ स. ४ स.गु. ५ ज. ६ स.गु.७ स. गु. = JL - - - - - - - - - - - - - - - आत्मा- भा-वयती भवमु-क्तिः स्या-दितीय-मार्या-गीतिः ॥ ss, 55, ।।s, ।।5, 55, ।।, ssss.. (१) प्रार्यागीतेः षोडशभेदानां नामानि यथा१ आर्यागीतिपथ्यार्या । २ आर्यागीतिमुखविपुलार्या । ३ अार्यागीतिजघनविपुलार्या। ४ आर्यागीत्युभयविपुलार्या । ५ मुखचपलार्यागीतिपथ्यार्या । ६ मुखचपलार्यागीतिमुखविपुलार्या । ७ मुखचपलार्यागीतिजघनविपुलार्या । ८ मुखचपलार्यागीत्युभयविपुलार्या । ९ जघनचपलार्यागीतिपथ्यार्या । १० जघनचपलार्यागीतिमुखविपुलार्या । ११ जधनचपला-गीतिजघनविपुलार्या । १२ जघनचपलार्यागीत्युभयविपुलार्या । १३ महाचपलार्यागीतिपथ्यार्या । १४ महाचपलार्यागीतिजघनविपुलार्या । १५ महाचपलार्यागीतिजघनविपुलार्या । १६ महाचपलार्यागीत्युभयविपुलार्या ।
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy