________________
द्वितीयोऽध्यायः ।
अत्रान्ते न्यस्तस्याऽर्धगणस्य विकल्पाभावादधस्तनकाङ्कस्य द्वितीयाऽर्धे सप्तमाधस्तनैश्चतुर्भिर्गुणने जाताश्चत्वारः । सप्तमस्येष्टस्य सर्वगुरुत्वात्तस्याधस्तनान् ज (ISI) गणव्यतिरिक्तानन्तगुर्वादिगुरुसर्वलघू'स्त्रींश्चतुर्षु पातयेत् । शेष एकः । षष्ठस्य लघुमात्ररूपत्वाद्विकल्पाऽभावः । पञ्चमाधस्थचतुर्भिरेकगुणने तत्राऽपि पूर्ववत्त्रयाणां त्यागे शेषस्यैकस्य चतु
1
धस्थपञ्चभिर्हतौ चतुर्षु पातितेषु शेषस्यैकस्य तृतीयाधस्थैश्चतुर्भिर्हतौ शेषयोर्द्वयोस्त्यागे शेषद्वयस्य द्वितीयस्यैः पञ्चभिर्हतौ द्वये त्यक्ते शेषा अष्टौ । तेषां प्रथमस्थैश्चतुर्भिर्हतौ जगणातिरिक्ते द्वये त्यक्ते त्रिंशत् । एवमुत्तरार्धम् । पूर्वार्धान्त्यगणाधं त्वविकल्पम् । सप्तमस्थैश्चतुर्भिस्त्रिंशतो द्वये पातिते शतमष्टादशाधिकम् । तस्य षष्ठस्थाभ्यां द्वाभ्यां हतौ एकस्य त्यागे पञ्चत्रिंशदधिकं शतद्वयं शिष्टम् । तस्य पञ्चमस्थैश्चतुर्भिर्हतौ त्रिषु पातितेषु शिष्टा सप्तत्रिंशदधिका नवशती । तस्यां चतुर्थस्थैः पञ्चभिर्हतायां चतुर्णा त्यागे एकाशीत्यधिकानि षट्चत्वारिंशच्छतानि । तेषु तृतीयस्यैश्चतुर्भितेषु त्रिषु पातितेषु श्रष्टादशसहस्राणि एकविंशत्यधिकानि सप्तशतानि - च । तेषां द्वितीयस्थैः पञ्चभिर्हतौ द्वयोरपाये सहस्राणां त्रिनवतिस्त्र्यधिकाषट्शती च । तस्यां प्रथमस्यैश्चतुर्भिर्हतायां त्रयत्यागे सिद्धोऽङ्को लक्षत्रयं चतुःसप्ततिः सहस्राणां नवाधिकानि चत्वारि शतानि च । अङ्कतोऽपि ३७४४०६ । एतावत्सङ्ख्येयं पूर्वोक्ताऽऽर्या भवति । तदुक्तम्गणानुद्दिष्टगाथायाः संस्थाप्य तद्घो लिखेत् । चतुःपञ्चादिकां सङ्ख्यां स्थानस्थानोचितां ततः ॥ हत्वा हत्वाद्यमन्त्येन चोपरिस्थगणादधः । पृथग्घात गणेभ्योऽथ गणसङ्ख्यां विकल्पयेत् ॥ हताद्धार्योचिता तावद्यावदाद्याङ्कसम्भवः । तत्सङ्ख्यामुद्दिशेद्गाथामुद्दिष्टंप्रत्यये बुधः ॥ इति । इत्यार्योद्दिष्टविधिः ॥
अथ तन्नष्टम् । यदा लक्षत्रयं चतुःसप्ततिसहस्राणि चत्वारि शतानि नव चेत्येतत्सङख्याऽऽर्या कीदृगिति जिज्ञासा, तदा नष्टाङ्कं लिखित्वा आदिभूतणविकल्पैर्भागं हरेत् । भागे हृते योऽङ्कः शिष्टस्तत्सम्मितं तद्भणविकल्पेषु गणं लिखेत् । भागहारे यल्लब्धं तत्सैकं कृत्वा पुनः पुनरुत्तरगणविकल्पैर्भागे हृते भाज्यशेषसङ्ख्याको गणस्तत्तद्गणविकल्पेषु पूर्वस्थापितगणानन्तरं स्थाप्यः । इत्येवं यावत्पूर्ति कार्यम् । यत्र तु गणविकल्प एव शिष्यते, तत्र तत्सङ्ख्य एव गणो ग्राह्यः । परं लब्धं सर्क न कार्यम् । शिष्टं पूर्ववत् । तद्यथा- प्रथमगणस्य चतुर्विकल्पत्वाच्चतुर्भिः