SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ર૫ द्वितीयोऽध्यायः। अस्यार्थः-ख इति चतुर्लघोर्गणस्य संज्ञा । पूर्वार्ध षष्ठो गणो जगणः खो वा कार्यः । खे तु षष्ठे गणे, अस्य लघुनि तदीयप्रथमलध्वन्ते यतिभवति । यदि षष्ठः खपरः खश्चतुर्लघुः परो यस्य स तथा सप्तमश्चतुलघुः स्यादित्यर्थः । तदात्र षष्ठान्ते वा यतिः । चरमदले-द्वितीयाधे यदि तुर्यश्चतुर्थः खपरस्तत्रापि चतुर्थान्ते यतिरिति । यहा मूले पञ्चम्यौ ल्यब्लोपे । तेन द्वितीयलमादाय सयतिपदनियमः, सयतिकपदप्रारम्भनियम इत्यादिरर्थः । उभयथापि लक्ष्येऽविसंवाद एव । किं त्वेतस्मिन्न्याख्याने "न्लौ चेत्पदं द्वितीयादि" (पिं.सू.४-१८) "सप्तमः प्रथमादि" (पि.सू. ४-१६) इति सूत्रानुग्रहो भवति । पूर्वपदाध्याहारश्च कर्तव्यो न भवति । अत एव क्षेत्रराज पाह षष्ठे द्वितीयमादाय लमेवारभ्यते पदम् । सप्तमे न्ले पुनर्मुख्यं पूर्वार्धेऽसौ यतिः स्मृता ॥ पदमारभ्यते नित्यं गृहीत्वा प्रथमं लघु। पञ्चमे न्ले बुधैरेवं चरमार्धे स्मृता यतिः ॥ इति । छन्दोमाणिक्यं त्वार्थसूत्रार्थकथनेनापि सङ्गच्छते । अत्र यतिमात्रे नियते सति चामीकरादिवत्पूर्वापरभागयोरनेकाक्षरत्वे पदमध्ये यतिर्मा भूदिति पदस्यापि नियम उक्तः । तत्र स्पष्टास्पष्टविभक्तिकत्वयोर्न विशेषः । अत्र प्रथमाऽऽर्या षष्ठजगणपक्षे सामान्यलक्षणोदाहरणम् । षष्ठस्य चतुर्लघुत्वे पूर्वार्धद्विविधयतौ च द्वितीयाऽऽर्यापूर्वार्धमुदाहरणम् । उत्तरार्धयतेस्तल्लक्षणस्य तदुत्तरार्धमिति विवेकः । अत्र विषमे जगणनिषेधात्प्रत्येक चत्वारो विकल्पाः । यथा ss, us, su, ॥ इति । समस्थाने तु जगणस्याऽनिषेधात्प्रत्येकं पञ्च। यथा-5s, us, isi, sil, , इति । ततश्च पूर्वार्धे प्रथमे भेदाः ४, द्वितीये ५, तृतीये ४, चतुर्थे ५, पञ्चमे ४, षष्ठे २ जन्लयोरेब विकल्पनात् । सप्तमे ४, अष्टमे गुरुरेकः । एतेषामन्योन्यगुणने द्वादश सहस्त्राणि, अष्टौ शतानि पूर्वार्धभेदाः । उत्तरार्धे तु षष्ठे लघुनियमनात्तदतिरिक्तं सर्व पूर्ववदेव । (१) तथा चान्योन्यगुणने षट्सहस्राणि चत्वारिशतानि भेदा उत्तरार्धे । उभयविकल्पानां परस्परगुणनेऽष्टौ कोटय एकोनविंशतिर्लक्षाणि 3 (१) तथा हि-प्रथमे भेदाः ४ द्वितीये ५ तृतीये ४ चतुर्थे ५ पञ्चमे ४ षष्ठे लधुरेकः सप्तमे ४ अष्ठम गुरुरकः । एवं च ४xyxyxyxxx परस्परगुणने षट् सहस्राणि चत्वारि शतानि उत्तरार्धभेदाः।
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy