________________
२०
सामान्यसंशामाह
नारायणभट्टीसहितवृत्तरत्नाकरे
शेषं गाथास्त्रिभिः षड्भिश्वरणैश्चोपलक्षिताः ।। १८ ।।
शेषं विशेषनिरूपितादन्यत् । तदेवाह - त्रिभिरिति । क्वचिन्त्रिभिः, क्वचित्षभिः चकाराद्दशभिर्विलक्षणगुरुलघुक्रमवद्भिर्न्यनाधिकाक्षरैश्च
चरणैर्युक्ता यास्ता गाथा ज्ञेया इत्यर्थः ॥ १८ ॥
पूर्वोक्तानामेकाक्षरपादमारभ्य षडूविंशत्यक्षरपादावधिकानां छन्दसां सामान्यतो जातिसंज्ञा श्राह
उक्ताऽत्युक्ता तथा मध्या प्रतिष्ठाऽन्या सुपूर्विका ॥ गायत्र्युष्णिगनुष्टुप् च बृहती पतिरेव च ॥ १६ ॥ त्रिष्टुप् च जगती चैव तथाऽतिजगती मता ॥ शक्वरी साऽतिपूर्वा स्यादष्टयत्यष्टी ततः स्मृते ॥२०॥ धृतिश्चाऽतिधृतिश्चैव कृतिः प्रकृतिराकृतिः ॥ विकृतिः सङ्कृतिश्चैव तथाऽतिकृतिरुत्कृतिः ॥२१॥
एकाक्षरपादा 'उक्ता' नाम । इयं च जातिसंज्ञा । श्रवान्तरसंज्ञास्तु वक्ष्यन्ते । एवमितरत्रापि द्व्यक्षरपादा 'श्रत्युक्ता' । एवं शेषा श्रपि ज्ञेयाः । श्रन्या सुपूर्विका, अनन्तरोक्ता प्रतिष्ठैव, सुपूर्वा सती सुप्रतिष्ठा नामाऽन्या जातिरित्यर्थः । साऽतिपूर्वेति । सा शक्वर्यतिपूर्वा । श्रतिशक्वरीत्यर्थः । ननु सूत्रकारेण समच्छन्दसां गायत्र्यादीनामेवोक्तत्वादुक्तायुक्तेरुत्सूत्रत्वमिति चेन्न । "द्विको ग्लौ” (पिं०स०) इत्यादिसूत्रोक्त काक्षरादिप्रस्तारस्य तत्संज्ञायां ज्ञापकत्वात् । कविभिः प्रायेऽणाप्रयुक्तत्वात्तेषां लक्षणावसरेऽनुक्तिरिति भावः । ताः -- १ उक्ता, २ प्रत्युक्ता, ३ मध्या, ४ प्रतिष्ठा, ५सुप्रतिष्ठा, ६ गायत्री, ७ उष्णिक, ८ अनुष्टुपू, ६ बृहती, १० पक्तिः, ११ त्रिष्टुपू, १२ जगती, १३ अतिजगती, १४ शक्करी, १५ श्रतिशक्करी, १६ अष्टिः, १७ अत्यष्टिः, १८ धृतिः, १९ अतिधृतिः २० कृतिः, २१ प्रकृतिः, २२ श्राकृतिः, २३ विकृतिः, २४ सकृतिः, २५ प्रतिकृतिः, २६ उत्कृतिः । अत्र प्रतिपाढमेकैकाक्षर वृद्धौ सकले छन्दसि चतुरक्षरा वृद्धिर्भवति । तत्रोक्ता चतुरक्षरा । श्रत्युक्ताऽष्टाक्षरा । वमुत्तरत्रापि । उत्कृतिश्चतुरधिकशताक्षरा ॥ १६ । २० । २१ ॥
r