________________
२५०
सुवृत्ततिलकम् ।
यथा मम
निजभुजजैविशालगुणविक्रमकीर्तिभरैः
प्रविदधता सुधांशुधवलं भवता भुवनम् ॥ कथय कथं कृतेयमतिरागवती जनता
चरितमपूर्वमेव तव कस्य न नर्कुटकृत् ॥ जसजैः सयलैर्गेन युताष्टनवसंहतिः ।।
दशसप्ताक्षरा पृथ्वी कथिता वृत्तवेदिभिः ।। ३२ ।। यथा ममजवात्स रजसा युतः श्रमविसंस्थुलाङ्गः पथा
व्रजन्सततसेवकः पिशुनधाम वेश्म प्रभोः ॥ कदाचिदवलोकनैः फलविवर्जितैर्मन्यते
___ जडः करसमर्पितामिव मदेन पृथ्वीमिमाम् ॥ नसमै रसलैर्गेन युक्ता सप्तदशाक्षरा॥
विच्छिन्ना हरिणी षड्भिश्चतुर्भिः सप्तभिस्तथा ।। ३३ ।। यथा मम'न समरसनाः काले भोगाश्चलं धनयौवनं
कुरुत सुकृतं यावन्नेयं तनुः प्रविशीयते ॥ किमपि कलना कालस्येयं प्रधावति सत्वरा ___ तरुणहरिणी सन्त्रस्तेव प्लवप्रविसारिणी ॥ यमनैः समलैर्गेन युक्ता सप्तदशाक्षरा॥
षडेकादशविच्छेदवती शिखरिणी मता ॥ ३४ ॥ यथा मम
यथा मन्युर्लीनः स च विभवमग्नः स्मरमद
स्तथा जाने जाता शमसमयरम्या परिणतिः ॥ इदानीं संसारव्यतिकरहरा तीव्रतपसे
विविक्ता युक्ता मे गिरिवरमही सा शिखरिणी ॥ चतुःषट्सप्तविरतिर्वृत्तं सप्तदशाक्षरम् ॥
मन्दाक्रान्ता मभनतेस्तगगैश्चाभिधीयते ॥ ३५ ॥ यथा मममध्येभङ्गीवलनविततापाङ्गसंसङ्गभाजः
स्मर्यन्ते ते यदि धृतिमुषः पक्ष्मलाक्षीकटाक्षाः ॥ तत्किं मिथ्या नियमनिभृतैः कानने धीयते धी
मन्दाक्रान्ता दशति निशिता पन्नगी पाणिसक्ता ॥