________________
द्वितीयः स्तबकः।
२२५
तव मुखतामरसं मुरशत्रो!
हृदयतडागधिकाशि ममास्तु ॥ .. भवति नजावथ मालती जरौ ॥१४॥ इह कलयाच्युत ! केलिकानने
मधुरससौरभसारलोलुपः॥ कुसुमकृतस्मितचारुविभ्रमा- .
मलिरपि चुम्बति मालती मुहुः॥ यमुना क्वापि । अयि ! विजहीहि दृढोपगृहनं
त्यज नवसङ्गमभीरु ! वल्लभम् ।। अरुणकरोद्गम एष वर्तते
वरतनु ! सम्प्रवदन्ति कुक्कुटाः ।। इति भारवौ । त्यौ त्यौ मणिमाला छिन्ना गुहवक्त्रैः ॥१५॥ प्रह्वामरमौलौ रत्नोपलक्लुप्ते ।
जातप्रतिबिम्बा शोणा मणिमाला ॥ गोविन्दपदाब्जे राजी नखराणा
___मास्तां मम चित्ते ध्वान्तं शमयन्ती ॥ मो भः स्मौ चेज्जलधरमालाब्ध्यन्त्यैः ॥ १६॥ या भक्तानां कलिदुरितोत्तप्तानां
तापच्छेदे जलधरमाला नव्या ॥ भव्याकारा दिनकरपुत्रीकूले
केलीलोला हरितनुरव्यात्सा वः॥
(१३) अतिजगती । (त्रयोदशाक्षरा वृत्तिः ।) त्र्याशाभिर्मनजरगाः प्रहर्षिणीयम् ॥१। गोपीनामधरसुधारसस्य पान
रुत्तुङ्गस्तनकलशोंपगृहनैश्च ॥ आश्चर्यैरपि रतिविभ्रमैर्मुरारः ।
संसारे मतिरभवत्प्रहर्षिणीह ॥ जभी सभौ गिति रुचिरा चतुर्ग्रहैः॥२॥ पुनातु वो हरिरतिरासविभ्रमी
परिभ्रमन्ब्रजरुचिराङ्गनान्तरे ॥