SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽध्यायः। अथाऽध्वयोगः। अथाऽध्वयोगमाहसङ्ख्यैव द्विगुणैकोना सद्भिरध्वा प्रकीर्तितः ।। वृत्तस्याङ्गुलिकी व्याप्तिरधः कुर्यात्तथाङ्गुलिम् ॥ ९॥ या समादिवृत्तानां तत्तजातिषु सङ्ख्या पूर्वमुक्ता सा द्विगुणा एको नेति सद्भिः प्रस्तारादिशेरध्वा वृत्तप्रस्तारख्याप्यः प्रदेशस्तत्तजातिषूक्तः स्वस्वग्रन्थेषु । व्यक्षरे यथा सङ्ख्याऽष्टरूपा द्विगुणा षोडश एकोना पश्च दश भवन्ति सोऽयं तस्य अध्वा पञ्चदशाङ्गुलायां भुवि तद्वृत्तं प्रस्तार्यते इति भावः । चतुरक्षरेऽपि तथाकरणे एकत्रिंशत् स तस्य । एवमर्धसमविषमयोः । उक्तेऽर्थे उपपत्तिमाह-वृत्तस्येति । वृत्तस्य-वृत्तप्रस्तारस्य ध्यासतो व्याप्तिरङ्गुलिमिता । वृत्ताधश्चाङ्गुलिं कुर्यात् । त्यक्तामिति शेषः । अङ्गुलायामा गुरुलघवः कार्याः, प्रस्तारान्तरालं चाङ्गुलिमितमेव कार्यमित्यर्थः । अत्र चोद्दिष्टाङ्कलेखनाय मध्येऽङ्गुलावस्थापनम् , अङ्गुलन्यूनाधिकपरिमाणानां गुरुलघूनामुद्दिष्टाङ्कानां च लेखनं सम्भवेऽप्यननुगतस्याशास्त्रार्थत्वादगुणमिति सिद्ध्यर्थमङ्गुलिनियमनं कृतं न तु व्यसनिमात्रतया। न च प्रथमप्रस्तारोऽप्युद्दिष्टकरणायोपर्यङ्गुलमितभूमिग्रहे पूर्णैव द्विगुणा सङ्ख्याऽध्वा स्यात् न त्वेकोनेति वाच्यम् । प्रथमस्य सर्वत्र सर्वगुरुत्वेनैव नियमादुद्दिष्टकरणानपेक्षणात् । न चैवमन्तिमस्यापि सर्वलघुत्वेन शातत्वाद् धना द्विगुणा सङ्ख्याऽध्वा स्यादिति वाच्यम् । कोट्यवधिकप्रस्तारेषु सर्वलघोः सामान्यत अन्त्यत्वज्ञानेऽपि कतिथोऽयमिति विशेषाशाने गणनाव्यतिरेकेणापि तावत्सङ्ख्याक इति ज्ञानार्थमुद्दिष्टकरणापेक्षणात् । एतेनैतदपास्तं यत्केचिदाहुः-“षष्ठः प्रत्ययोऽध्वयोगपरिच्छित्तिः इत्येके सोऽल्पफलत्वात्पुरुषेच्छानुविधायित्वेनानियतत्वाचनोक्तः” इति ॥६॥ सङ्ख्याध्वनोः सङ्ग्रहपद्यम्सैकोद्दिष्टाङ्ककूटोल्लगकरणगताकैर्विमित्रैः परेषां पूर्णद्वैगुण्यतो वा भवति गणनया प्रस्तृतीनां च सङ्ख्या ॥ वृत्ते वृत्तान्तरे चाङ्गुलिपरिमितता स्यात्तदैकेन हीना सङ्ख्यैव द्विःकृताध्वा विधिरयमुदितो भट्टनारायणेन ॥ इत्यध्वयोगः। इदानीं नियूंढप्रतिज्ञाभारो ग्रन्थकारः स्वग्रन्थे श्रोतृभिः प्रवृत्तिविशेषः कार्य इति सूचनाथं स्वयंशपित्रादिगुणप्रतिपादनपूर्वकं ग्रन्थकृतिमुपसंहरतिवंशेऽभूत्कश्यपस्य प्रकटगुणगणः शैवसिद्धान्तवेत्ता विप्रः पव्येकनामा विमलतरमतिर्वेदतत्त्वार्थबोधे ॥
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy