SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ १ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । CONDENS ७९ अथ मालाछन्द: पढमचरण ससिवअणि मिअणअणि णव दिअगण पअल पुण वि तह रअण ठवहु अंतर कण्णो । पिंगलणाअ भणता माला सेसं पि गाहस्स ॥ १२८ ॥ [ प्रथमचरणे शशिवदने मृगनयने नव द्विजगणाः पतन्ति पुनरपि तथा रगणं स्थापयतान्ते कर्णः । पिङ्गलनागो भणति मालां शेषमपि गाथायाः ||] हे शशिवदने, हे मृगनयने, कर्णो गुरुद्वयात्मको गणो भवति । शेषं द्वितीयचरणं गाथाया अर्ध यस्मिंस्तन्मालाछन्दः पिङ्गलनागो भणति ॥ इदमप्युदाहरणम् ॥ उक्तलक्षणमेव दोहाच्छन्दसाह— पढम होइ णव विप्पगण जोहल कण्ण ठवेहु । गाहा अद्धा अंत दइ मालाछंद कदेहु ।। १२९ ॥ [ प्रथमं भवन्ति नव विप्रगणा जोहलं कर्ण स्थापयत । गाथाया अर्धमन्ते दत्वा मालाछन्दः कुरुत ||] यत्र प्रथमं नव विप्रगणाः ततो जोहलं रगणः पुनर्गुरुद्वयम् । एवं पञ्चचत्वारिंशन्मात्राः, पश्चगाया अर्ध सप्तविंशतिर्मात्राः उत्तरार्धे यत्र तन्मालाछन्दः ॥ तथा चोक्तं वाणीभूषणे – 'द्विजवरनवगणमतिशय सुरुचिरमिह कुरु तदनु रगणमपि कलय कमलमुखि कर्ण - वच्छेषे ॥ अपरदलं गाथाया मालावृत्तं विचित्रं तत् ॥' इदमप्युदाहरणम् ॥ तामुदाहरति — जहा (यथा ) - वरस जल भ्रमइ घण गअण सिअल पवण मणहरण कणअपिअरि णच विजुरि फुल्लिआ णीवा । पत्थरवित्थरहिअला पिअला णिअलं ण आवेइ || [वर्षति जलं भ्रमति घनो गगने शीतलः पवनो मनोहरणः कनकपता नृत्यति विद्युत्फुल्लिता नीपाः । प्रस्तरविस्तारहृदयः प्रियो निकटं नायाति ॥] काचित्प्रोषितभर्तृका वर्षासमयमालोक्य सखीमाह - हे सखि, वर्षति जलम् । भ्रमति घनः । शीतलः पवनो मनोहरणः । वहति इति शेषः । किं च [क]नकपीता नृत्यति विद्युत् । नीपाः [फुल्लिता: ] एवंविधेऽपि समये जाते प्रस्तरविस्तारहृदयो महापाषाणहृदयः प्रिय इ१. 'पवित्रम्' इति वाणीभूषणस्थः पाठः.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy