SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । [शशिवदने गजगमने पदे पदे द्विजगणष्टुं पयोधरेण सशिखम् । पठ प्रथमं द्वाभ्यां द्वाभ्यां लघुभ्यां प्रकटितो द्विजगणोऽधिको जगणो दले भणति तां शिखाम् ॥] .७८ हे शशिवदने, हे गजगमने, यत्र पदे पदे द्विजगणषट्कं भवति । तदुपरि पयोधरेण जगणेन सशिखम् । उपरिस्थितजगणमित्यर्थः । एवंविधं प्रथमदलं पठ । पश्चाद्द्वाभ्यां द्वाभ्यां लघुभ्यां प्रकटितोऽधिक एको द्विजगणो लभ्यते । तेन द्वितीये दले सप्तविप्रगणानन्तरं यत्र जगणो भवति स इति प्रसिद्धः । शेषस्तच्छिखानामकं छन्दो भणति । इदमप्यु. दाहरणम् ॥ उक्तलक्षणमेव गाहूछन्दसाह - मत्त अठाइस पढमे बीए बत्तीस मत्ताइ । पअ प अंते लहुआ सुद्धा सिखा विहाणेहु ॥ १२७ ॥ [ मात्रा अष्टाविंशतिः प्रथमे द्वितीये द्वात्रिंशन्मात्राः । पदे पदेऽन्ते लघुका शुद्धां शिखां विजानीत || ] यत्राष्टाविंशतिर्मात्राः प्रथमे दले भवन्ति । द्वितीयदले द्वात्रिंशन्मात्रा: । पदयोरन्ते लधुर्यत्र तच्छुद्धं शिखाछन्दो विजानीत ॥ भूषणेsपि - 'द्विजवरमिह हि रसगुणितमुपनय तदनु जगणमपि विधेहि | स्वरगणितमिह परदलमधिकुरु फेणिनरपतिसुभणितरुचिरशिखा हि ॥ इदमप्युदाहरणम् ॥ तामुदाहरति - जहा ( यथा) - फुल्लिअ महु भमरहु अणिपहु किरण बहु अवअरु वसंत | मलअगिरिकुहुर धरि पवण वह सह वत भण सहि णिअल म णहि कंत ॥ [ पुष्पिता मधुका भ्रमरा रजनिप्रभोः किरणा बहवोऽवतरति वसन्तः । मलयगिरिकुहरं धृत्वा पवनो वहति सहे बत भण सखि निकटे मे नहि कान्तः ॥ ] काचित्प्रोषितभर्तृका सखीमाह - हे सखि, पुष्पिता मधुका भ्रमराः । स्थिताः पुष्पेषु इति शेषः । किंच रजनीप्रभोश्चन्द्रस्य किरणा बहवो विशेषतः अव इदानीं पुनर्वसन्त इत्यतः । परमसंतापका इति भावः । अथ च मलयाचलकटककोटरमभिव्याप्य पवनो वहति । अतएवैतत्सर्व सोढव्यं कथमिति त्वमेव भण । निकटे नास्ति कान्तः । अतो यदुचितं भण ॥ उवणिका यथा ॥॥॥, ॥॥॥, ॥॥॥, 11, 11, 11, 15], [, [, [, III, II, III, ISI. - १. ' मुनिगुणितमपर-' इति भूषणस्थः पाठः २. 'वरफणि-' इति भूषणस्थः पाठः .
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy